अ॒स्म॒त्रा ग᳚न्त॒मुप᳚ नो॒॑र्वाञ्चा॒ सोम᳚पीतये ।
अ॒यं वां᳚ मित्रावरुणा॒ नृभि᳚ः सु॒तः सोम॒ आ पी॒तये᳚ सु॒तः ॥
पदपाठः (Word-by-word)
अ॒स्म॒॑त्रा । ग॒न्त॒म् । उप᳚ । नः॒ । अ॒र्वाञ्चा᳚ । सोम᳚॑पीतये ।
अ॒यम् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । नृ॑भिः᳚ । सु॒तः । सोमः᳚ । आ । पी॒तये᳚ । सु॒तः ॥
सायणभाष्यम् (Sayana Commentary)
मित्रावरुणा हेमित्रावरुणौ वांयुवयोःसंबन्धिनमंशुंवल्लीरूपंसोमंदुहन्ति संपादयन्ति अध्वर्यवः किमिव तांप्रसिद्धांअग्निहोत्राद्यर्थांवासरीं सर्वांगाच्छादितपयस्कांबहुक्षीरामित्यर्थः यद्वा पयआदिना- आच्छादयित्रीं वसआच्छादने औणादिकअरिप्रत्ययः कृदिकारादक्तिनइतिङीष् यद्वा केवलऔणादिकः अरप्रत्ययः स्वार्थिकोऽण् धेनुंन प्रीणयित्रींगामिव केनसाधनेनेतितदाह—अद्रिभिः अभिषवसाधनै- र्ग्रावभिः किंच अद्रिभिः तैरेवसाधनैः सोमंयुष्मदर्थमेवदुहन्ति वल्लीरूपंसोमंयुष्मदर्थमेवोदकेनाप्ला- व्यरसंदुहन्ति किंच अर्वांचा अस्मदभिमुखौसन्तौ सोमपीतयेसोमपानाय अस्मत्राअस्मन्त्रातारौ यु- वांनोऽस्मदीयंयज्ञंउपगन्तं उपागच्छतं किंच वांयुष्मदर्थं अयंसोमःनृभिर्नेतृभिर्यज्ञनिर्वाहकैःऋत्वि- ग्भिःसुतःअभिषुतः किंच आपीतयेसंपूर्णपानाय सुतः अतआगच्छतमित्यर्थः ॥ ३ ॥
प्रप्रपूष्णइतिचतुरृचंपंचमंसूक्तं पारुच्छेपमात्यष्टं पूषदेवताकं प्रप्रचतुष्कंपौष्णमित्यनुक्रान्तं विनि- योगोलैङ्गिकः ।