उ॒त वा᳚मु॒षसो᳚ बु॒धि सा॒कं सूर्य᳚स्य र॒श्मिभि᳚ः ।
सु॒तो मि॒त्राय॒ वरु᳚णाय पी॒तये॒ चारु᳚रृ॒ताय᳚ पी॒तये᳚ ॥
पदपाठः (Word-by-word)
उ॒त । वा॒म् । उ॒षसः᳚ । बु॒धि । सा॒कम् । सूर्य᳚स्य । र॒श्मि॑भिः᳚ ।
सु॒तः । मि॒त्राय᳚ । वरु᳚णाय । पी॒तये᳚ । चारुः᳚ । ऋ॒ताय᳚ । पी॒तये᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेमित्रावरुणौ आयातंआगच्छतं यतोयुष्मदर्थंइन्दवः क्लेदनसमर्थाः सोमासःसोमाःदध्याशिरः दध्नाश्रयणवन्तःसन्तःइमेपुरतोग्रहेणगृहीतावर्तन्ते अतआयातं किंच दध्याशिरः धीयमानाशिरःसो- माः सुतासः मन्त्रेणग्रावभिरभिषुताःसंपन्नाः अतआयातमितिशेषः आदित्यग्रहेदध्यवनयद्भावात् त- दपेक्षयादध्याशिरइत्युक्तं उतअपिच वांयुवयोःप्रीतयेपालनाय उषसोबुधि उषसः संबंधिनिबोधेसति संपदादिलक्षणोभावेक्विप् सावेकाचइतिविभक्तेरुदात्तत्वं प्रकाशेसंजातेसति नकेवलमुषसएवबोधः अपितुसूर्यस्यरश्मिभिःसाकं सूर्यकिरणैःसहप्रकाशेहविःप्रदानायसंजातेसति सुतः सोमोअभिषुतः इदानींवियुज्योच्यते मित्रायसर्वहितायएतन्नामकायअहरभिमानिदेवाय तथवरुणायआवरकाय रा- त्र्यभिमानिदेवायच तदर्थंसोमःसुतइतिशेषः किंच ऋताययज्ञायतन्निर्वाहकायतदर्थंपीतयेपानाययज्ञ- सिद्ध्यर्थंहिदेवानांसोमपानं यद्वा कर्तरिक्तिच् पीतयेपात्रेऋत्विगादयेऋताययज्ञायतन्निर्वाहकायवा चारुःचरणीयः भक्षणीयः सोमः सुतःअभिषुतः ॥ २ ॥