सु॒न्वा॒न इत्सि᳚षासति स॒हस्रा᳚ वा॒ज्यवृ᳚तः ।
सु॒न्वा॒नायेन्द्रो᳚ ददात्या॒भुवं᳚ र॒यिं द᳚दात्या॒भुव᳚म् ॥
पदपाठः (Word-by-word)
सु॒न्वा॒नः । इत् । सि॒सा॒स॒ति॒ । स॒हस्रा᳚ । वा॒जी । अवृ᳚तः ।
सु॒न्वा॒नाय᳚ । इन्द्रः᳚ । द॒दा॒ति॒ । आ॒॑भुव᳚म् । र॒यिम् । द॒दा॒ति॒ । आ॒॑भुव᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र सुन्वन् त्वामुद्दिश्याभिषवंकुर्वन्यजमानः क्षयंसर्वैर्वस्तव्यं गन्तव्यंवा गृहंवनोति हि त्वत्प्र- सादात्संभजते हिःप्रसिद्भ्यर्थः किंच सुन्वानोहि सोमयागंकुर्वाणएव परीणसः परितोनद्धान् संबद्धा- न् द्विषोद्वेष्टृनवयजति नाशयति नकेवलंयागद्वेषिणः देवानांद्विषोप्यवयजति किंच सुन्वानइत् अभि- षवोपलक्षितंयागंकुर्वाणः हेइन्द्रत्वत्प्रसादात् वाजी वाजवान् अन्नवान् अवृतः परैरनाक्रान्तःसन् सहस्रा सहस्राण्यपरिमितानि गवादिधनानि सिषासति साधयितुं संभक्तुं इच्छति सनेः सनि सनीव- न्तर्धेतिविकल्पनादिडभावेजनसनखनेत्यात्वं केनेदंलभ्यतइतितत्राह—सुन्वानाय इन्द्रमुद्दिश्यसोम- यागंकुर्वाणाययजमानायवा अयमिन्द्रः आभुवंसमन्ताद्भवनशीलं तथा आभुवं पुनर्भवनशीलं अति- समृद्धंरयिंगवादिरूपंधनंददातिप्रयच्छति तस्मात्सुन्वानः सिषातीत्यर्थः ॥ ७ ॥
विंशेनुवाकेषट्सूत्रानि तत्रात्वाजुवइतिषळृचंप्रथमंसूक्तम् पारुच्छेपमात्यष्टं त्वन्नोवायवित्यन्त्या- ष्टिः चतुः षष्ट्यक्षरा वाय्व्यंत्वित्युच्यमानत्वादिदमुत्तरंचवायुदेवत्यं अत्रानुक्रमणिका आत्वापड्वाय- व्यंत्वंत्याष्टिरिति विनियोगोलैंगिकः ।