श्रवणम्

1.127.9
त्वम᳚ग्ने॒ सह᳚सा॒ सह᳚न्तमः शु॒ष्मिन्त᳚मो जायसे दे॒वता᳚तये र॒यिर्न दे॒वता᳚तये ।
शु॒ष्मिन्त᳚मो॒ हि ते॒ मदो᳚ द्यु॒म्निन्त᳚म उ॒त क्रतु᳚ः ।
अध᳚ स्मा ते॒ परि᳚ चरन्त्यजर श्रुष्टी॒वानो॒ नाज᳚र ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । सह᳚सा । सह᳚न्॑तमः । शु॒ष्मिन्॑त᳚मः । जा॒य॒से॒ । दे॒व॑ता᳚तये । र॒यिः । न । दे॒व॑ता᳚तये ।
शु॒ष्मिन्॑त᳚मः । हि । ते॒ । मदः᳚ । द्यु॒म्निन्॑त᳚मः । उ॒त । क्रतुः᳚ ।
अध᳚ । स्म॒ । ते॒ । परि᳚ । च॒र॒न्ति॒ । अ॒ज॒र॒ । श्रु॒ष्टी॒वानः᳚ । न । अ॒ज॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वंसहसाबलेन सहन्तमः अतिशयेनशत्रूणामभिभविता तथा शुष्मिन्तमः अतिशयेन तेज- स्वीजायसे सहेरौणादिकःकनिन् नाद्घस्येतिनुट् किमर्थं देवतातये देवानांविस्तारयुक्ताययागाय तद- र्थंयज्ञनामैतत् यद्वा उक्तगुणविशिष्टःसन् जायसे अरण्योरुत्पद्यसे यज्ञार्थत्वेदृष्टान्तः—रयिर्नदेवतातये धनं यथायज्ञार्थमुत्पद्यते तथाचोक्तं यज्ञार्थंद्रव्यमुत्पन्नमिति किंच ते तवमदः आज्यस्वीकारजनितो- हर्षः शुष्मिन्तमः अतिशयेनबलवान् हिशब्दः प्रसिद्धौ आज्येनाग्नेर्मदोभवतीतिप्रसिद्धं उत अपिच तेक्रतुः कर्मविशेषोऽपि द्युम्निन्तमः यशोयुक्तः अन्नयुक्तोवाखलु द्युम्नंद्योततेर्यशोवान्नंवेतियास्कः । अध अतःकारणात् अजर हेजरारहिताग्ने तेत्वांपरिचरन्ति यजमानाः तत्रदृष्टान्तः—श्रुष्टीवानोन दू- ताइव तेयथावार्ताविशेषप्रदानेनराजानंसेवन्ते तद्वत् छन्दसीवनिपावितिवनिप् छान्दसंप्रत्ययाद्युदा- त्तत्वम् अजरभक्तानामजरयितुः अन्तर्भावितण्यर्थात्पचाद्यच् यद्वा अजर अस्तोतः जरास्तुतिः असौ- नकस्यापिस्तोताभवति किंतु सर्वैः स्वयंस्तूयतेतादृशंत्वांपरिचरन्तीत्यर्थः ॥ ९ ॥