अ॒ग्निरी᳚शे॒ वसू᳚नां॒ शुचि॒र्यो ध॒र्णिरे᳚षाम् ।
प्रि॒या{4} अ᳚पि॒धी{4}र्व᳚निषीष्ट॒ मेधि᳚र॒ आ व᳚निषीष्ट॒ मेधि᳚रः ॥
पदपाठः (Word-by-word)
अ॒ग्निः । ई॒शे॒ । वसू᳚नाम् । शुचिः᳚ । यः । ध॒र्णिः । ए॒षा॒म् ।
प्रि॒यान् । अ॒पि॒॑धीन् । व॒नि॒षी॒ष्ट॒ । मेधि᳚रः । आ । व॒नि॒षी॒ष्ट॒ । मेधि᳚रः ॥
सायणभाष्यम् (Sayana Commentary)
यत् यं द्विता द्विप्रकारंश्रौतस्मार्तभेदेनद्वित्वमापन्नं यद्वा उपलक्षणमेतत् आहवनीयादिरूपेणना- नाविधं यद्वा द्विता द्विविधायऎहिकामुष्मिकफलाय उभयाय विभक्तेराजादेशः ईं इममग्निं कीस्तासः कीर्तनंकुर्वन्तः स्तोतारः पचाद्यचिछान्दसंसत्वं अभिद्यवः अभितोद्योतमानाः नमस्यन्तः नमस्कारो- पलक्षितमुपस्थानंकुर्वन्तोभृगवः भृगुगोत्रोत्पन्नामहर्षयः उपवोचन्त उपेत्यब्रुवन्ति किंकुर्वन्तः दाशा- दानेननिप्रित्तभूतेनहविर्दानार्थंमश्नन्तः अरणीभ्यामग्निमन्थनंकुर्वन्तः तथा भृगवः भ्रष्टारोहविषांपा- पानांवा किंचाग्निः शुचिर्दीप्तः धर्णिः धारणकुशलोऽयमग्निः एषांदीयमानानांवसूनांह विर्लक्षणानांई- शेप्रदातुमितिशेषः किंचायमग्निः मेधिरः मेधोयज्ञः तद्वान् स्वयंयष्टव्यत्वेनप्रधानभूतःसन् प्रियान्स्व- प्रीतिहेतून् आज्यादीन् अपिधीन् पर्याप्तिपर्यन्तंदत्तान् वनिषीष्टसंभक्तवान् संभजतांवा तथा मेधिरः मेधावान् असौआवनिषीष्ट अन्यदेवताकेष्वपियज्ञेषुस्वयमाज्यभागप्रयाजादिरूपंहविः संभजते ॥ ७ ॥