श्रवणम्

1.127.2
यजि᳚ष्ठं त्वा॒ यज᳚माना हुवेम॒ ज्येष्ठ॒मङ्गि᳚रसां विप्र॒ मन्म᳚भि॒र्विप्रे᳚भिः शुक्र॒ मन्म᳚भिः ।
परि᳚ज्मानमिव॒ द्यां होता᳚रं चर्षणी॒नाम् ।
शो॒चिष्के᳚शं॒ वृष᳚णं॒ यमि॒मा विश॒ः प्राव᳚न्तु जू॒तये॒ विशः᳚ ॥
▶ पदपाठः (Word-by-word)
यजि᳚ष्ठम् । त्वा॒ । यज᳚मानाः । हु॒वे॒म॒ । ज्येष्ठ᳚म् । अङ्गि᳚रसाम् । वि॒प्र॒ । मन्म᳚॑भिः । विप्रे᳚भिः । शु॒क्र॒ । मन्म᳚॑भिः ।
परि᳚ज्मानम्॑इव । द्याम् । होता᳚रम् । च॒र्ष॒णी॒नाम् ।
शो॒चिः॑के᳚शम् । वृष᳚णम् । यम् । इ॒माः । विशः᳚ । प्र । अ॒व॒न्तु॒ । जू॒तये᳚ । विशः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेविप्रमेधाविन् शिक्र दीप्तज्वालाग्ने यजिष्ठंअतिशयेनयष्टृतमं त्वात्वांयजमानाः वयं यष्टारः हुवे- माअह्वयामः यतोवयंयजमानाः यतश्चत्वंयजिष्ठः अतोहुवेमेत्यभिप्रायः कीदृशंत्वां अंगिरसांअंगिरो- गोत्रोत्प्न्नानांमध्येज्येष्ठंज्यायांसं यद्वा अङ्गिरसां अङ्गाराणांमध्येज्येष्ठंज्वालायुक्तत्वात् अङ्गिरा- अङ्गाराइतियास्कः । येङ्गराआसंस्तेगिरसोभवन्नितिश्रुतेः । केनसाधनेनेति तदुच्यते—मन्मभिः मननसाधनैः विप्रेभिः विशेषेणप्रीणयितृभिः मन्मभिर्मन्त्रैः यद्वा विप्रेभिर्मेधाविभिरृत्विग्भिः मन्म- भिर्मन्त्रैश्चसहितावयमितिसंबन्धः त्वदाह्वानानन्तरंपरिज्मानं परितोगच्छन्तं द्यामिवसूर्यमिव हो- तारंदेवानामाह्वातारं केषामर्थे चर्षणीनां मनुष्यनामैतत् मनुष्याणांयजमानानामर्थे यद्वा चर्षणी- नांपूर्वंमनुष्याणामेवसतां पश्चाद्यागादिसाधनेनदेवत्वमापन्नानांदेवानामाह्वातारं तथा शोचिष्केशं केशवदत्यन्तायतज्वालोपेतं वृषणं वर्षितारंकामानां एवंरूपंत्वांविशः त्वामेवनिविशमानाः इमावि- शः यजमानरूपाःप्रजाः जूतयेस्वर्गाद्यभिमतफलप्राप्तयेप्रावन्तु प्रकर्षेणप्रीणयन्तु तादृशंत्वांहुवेमेतिसं- बन्धः ॥ २ ॥