अति᳚थिं॒ मानु᳚षाणां पि॒तुर्न यस्या᳚स॒या ।
अ॒मी च॒ विश्वे᳚ अ॒मृता᳚स॒ आ वयो᳚ ह॒व्या दे॒वेष्वा वयः᳚ ॥
पदपाठः (Word-by-word)
अति᳚थिम् । मानु᳚षाणाम् । पि॒तुः । न । यस्य᳚ । आ॒स॒या ।
अ॒मी इति᳚ । च॒ । विश्वे᳚ । अ॒मृता᳚सः । आ । वयः᳚ । ह॒व्या । दे॒वेषु᳚ । आ । वयः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
विश्वासां सर्वासांविशां प्रजानांयजमानानां पतिंअभिमतफलदानेन पालकंहवामहे आह्वयामः नकेवलंयजमानानां किंतुसर्वासांप्रजानां समानं एकरूपं दहनपचनाद्युपकारस्यसर्वेषां समत्वात् तथा दंपतिंगार्हपत्यरूपेण गृहस्यपालकं दमइतिगृहनाम दमेकृत्तिरितितन्नामसुपाठात् अकारलोपश्छान्द- सः किमर्थं भुजे भोगायहवामहे आह्वयामः पुरः सएवविशेष्यते सत्यगिर्वाहसं यथार्थभूतानांअवि- संवादिफलानांस्तुतिरूपाणांगिरांवोढारं यद्वा गिरोमन्त्ररूपाव्हन्तीतिगिर्वाहसः ऋत्विजः सत्या- अविसंवादिफलागिर्वाहसोयस्यतं तादृशंहवामहइतिशेषः वहिहाधाञ्भ्यइत्यसुन् णिदित्यनुवृत्तेरुप- धावृद्धिः पुनः कीदृशं मानुषाणां मनुष्यणांअतिथिं अतिथिवत्पूज्यं दर्शादितिथिमपेक्ष्यागन्तारंवा - किंचास्याग्नेः आसयासमीपे आसेत्यन्तिकनाम आसाअम्बरमिति तन्नामसुपाठात् तत्समीपे अमीच- विश्वे अमृतासः हविर्भोक्तृत्वेन प्रसिद्धाः सर्वे देवाअपि आच आगच्छन्ति उपसर्गवशाद्योग्यक्रिया- ध्याहारःकिमर्थं वयः हविर्लक्षणान्नमुद्दिश्यअग्निमुखादेवेतरेभ्योदीयमानत्वात् तत्रदृष्टान्तः— पितुर्न पितुरन्तिकेपुत्रादयोयथान्नाद्यर्थं आगच्छन्ति तद्वत् किंच वयः नेतारऋत्विजोपि देवेषुइत- रेष्विज्यमानेषुमध्ये ह्व्या हवींषि आददत्यग्नये वेतेरौणादिकोडिः विचिवागुणः ॥ ८ ॥