श्रवणम्

1.173.4
ता क॒र्माष᳚तरास्मै॒ प्र च्यौ॒त्नानि᳚ देव॒यन्तो᳚ भरन्ते ।
जुजो᳚ष॒दिन्द्रो᳚ द॒स्मव᳚र्चा॒ नास᳚त्येव॒ सुग्म्यो᳚ रथे॒ष्ठाः ॥
▶ पदपाठः (Word-by-word)
ता । क॒र्म॒ । अष᳚॑तरा । अ॒स्मै॒ । प्र । च्यौ॒त्नानि᳚ । दे॒व॒॑यन्तः᳚ । भ॒र॒न्ते॒ ।
जुजो᳚षत् । इन्द्रः᳚ । द॒स्म॑व᳚र्चाः । नास᳚त्या॑इव । सुग्म्यः᳚ । र॒थे॒॑स्थाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ता तानि अपतरा अर्पतराणिव्याप्ततराणिवाहवींषि अस्माइन्द्रायतदर्थंकर्मकुर्मःसंपादयामः कृञश्छान्दसेवर्तमानार्थेलुङि मन्त्रेघसेतिच्लेर्लुक् छन्दस्युभयथेत्यार्धधातुकत्वेनङित्त्वाभावाद्गुणः च्यौत्नानिच्यावयितॄणिदृढानिस्तोत्राणिकर्माणिस्वकीयानिसामर्थ्यानिवा देवयन्तोदेवानात्मनइ- च्छन्तोयजमानाःप्रभरन्ति प्रकर्षेणसंपादयन्ति तद्वद्वयमपिसंपादयामइत्यर्थः दस्मवर्चाःदर्शनीयतेजाः शत्रूपक्षपणबलोवानासत्येवनासत्याविवाश्विनाविवतौहिद्यावापृथिव्यात्मानौ ताविवसुग्म्यः सुगम्यः सुखेनगन्तुंशक्यः रथेष्ठाःरथेवर्तमानः एवंभूतःसन् इन्द्रः जुजोषत् अस्मत्कृतंस्तोत्रादिकर्मसेवताम् ॥ ४ ॥