श्रवणम्

1.173.5
तमु᳚ ष्टु॒हीन्द्रं॒ यो ह॒ सत्वा॒ यः शूरो᳚ म॒घवा॒ यो र᳚थे॒ष्ठाः ।
प्र॒ती॒चश्चि॒द्योधी᳚या॒न्वृष᳚ण्वान्वव॒व्रुष᳚श्चि॒त्तम᳚सो विह॒न्ता ॥
▶ पदपाठः (Word-by-word)
तम् । ऊं॒ इति᳚ । स्तु॒हि॒ । इन्द्र᳚म् । यः । ह॒ । सत्वा᳚ । यः । शूरः᳚ । म॒घवा᳚ । यः । र॒थे॒॑स्थाः ।
प्र॒ती॒चः । चि॒त् । योधी᳚यान् । वृष᳚ण्॑वान् । व॒व॒व्रुषः᳚ । चि॒त् । तम᳚सः । वि॒॑ह॒न्ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

तमु तमेवेन्द्रंस्तुहि हेहोतः स्तुतिंकुरु किमस्याधिक्यमिति उच्यते योह यःखलु सत्वा अतिप्रभूत- बलः यद्वा सत्वा सादकःशत्रूणां यश्चशूरः शौर्योपेतः मघवाबलवानन्नवान्वा यश्चरथेष्ठाः रथेवर्तमानः किञ्च प्रतीचश्चित् प्रत्यभिमुखंयोद्धुरपियोधीयान् योद्धृतमः प्रतिपूर्वादञ्चतेः क्विन्नंतात् लुप्तनकारा- च्छसि अचइत्यकारलोपे चावितिदीर्घः अञ्चेश्छन्दस्यसर्वनामस्थानमितिविभक्तिरुदात्ता वृषण्वान् वृषाणोवर्षितारोवज्रादयः तद्वान् वृषातेवज्रउततेवृषारथइतिहिनिगमः । तथाववब्रुषश्चित् आवरक- स्यापितमसोमेघादिर्विहन्ताविशेषेणघातकः यस्मादेवंमहानुभावः तस्मात्स्तुहि ॥ ५ ॥