श्रवणम्

1.173.8 समानपद
ए॒वा हि ते॒ शं सव᳚ना समु॒द्र आपो॒ यत्त᳚ आ॒सु मद᳚न्ति दे॒वीः ।
विश्वा᳚ ते॒ अनु॒ जोष्या᳚ भू॒द्गौः सू॒री{4}श्चि॒द्यदि᳚ धि॒षा वेषि॒ जना᳚न् ॥
▶ पदपाठः (Word-by-word)
ए॒व । हि । ते॒ । शम् । सव᳚ना । स॒मु॒द्रे । आपः᳚ । यत् । ते॒ । आ॒सु । मद᳚न्ति । दे॒वीः ।
विश्वा᳚ । ते॒ । अनु᳚ । जोष्या᳚ । भू॒त् । गौः । सू॒रीन् । चि॒त् । यदि᳚ । धि॒षा । वेषि᳚ । जना᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र एवाहिएवंहिसतितेतवसंबन्धीनि सवना सवनानि सूयतेसोमोत्रेतिसवनानिसोमयागाः ते शंसुखकराभवन्ति कथंसति यत् यदिदेवीः देव्योद्योतमानाआपः समुद्रेउदकसमुद्द्रवणापादानभूतेन्त- रिक्षेआसुप्रजासुनिमित्तभूतासुतेत्वांमदन्तिमादयन्ति अन्तर्भावितण्यर्थोयं यदाप्राण्युपकारार्थंवर्षणा- यत्वांप्रेरयन्तिवृष्ट्युदकानि तदाखलुतवसोमयागाः सुखकराभवन्ति यज्ञसाधकवृष्टिप्रदानेनयागान्नि- वर्तयेत्यर्थः किञ्च हेइन्द्र तेत्वांविश्वागौः सर्वापिस्तोत्रशस्त्ररूपावाक् तेत्वी अनुक्रमेणजोप्याजोषणा- र्हाप्रीणयित्रीभूतभवति कदायदिसूरींश्चित् स्तोत्रादिप्रेरयितॄन् स्तोतृजनानपिधिषाधिषणयाप्रज्ञया- वृष्टिप्रदानरूपेणकर्मणावावेषिकामयसे तदासर्वापिस्तुतिस्त्वदर्थाभवति ॥ ८ ॥