श्रवणम्

1.113.14
व्य१॒᳚ञ्जिभि᳚र्दि॒व आता᳚स्वद्यौ॒दप᳚ कृ॒ष्णां नि॒र्णिजं᳚ दे॒व्या᳚वः ।
प्र॒बो॒धय᳚न्त्यरु॒णेभि॒रश्वै॒रोषा या᳚ति सु॒युजा॒ रथे᳚न ॥
▶ पदपाठः (Word-by-word)
वि । अ॒ञ्जि॑भिः᳚ । दि॒वः । आता᳚सु । अ॒द्यौ॒त् । अप᳚ । कृ॒ष्णाम् । निः॒॑निज᳚म् । दे॒वी । आ॒व॒रित्या᳚वः ।
प्र॒॑बो॒धय᳚न्ती । अ॒रु॒णेभिः᳚ । अश्वैः᳚ । आ । उ॒षाः । या॒ति॒ । सु॒॑युजा᳚ । रथे᳚न ॥
▶ सायणभाष्यम् (Sayana Commentary)

दिवो नभसः संबंधिनीष्वातासु । दिङ्नामैतत् । आततासु विस्तीर्णासु दिक्षूषा आंजिभिर्व्यंजकैः प्रकाशकैस्तेजोभिर्व्यद्यौत् । विद्योतते । प्रकाशते । सैषा देवी देवनशीला कृष्णां निर्णिजम् । निर्णिगिति रूपनाम । रात्रिकृतम् । कृष्णं रूपमपावः । अपावृणोत् । प्रकाशेन तिरस्कृतवती । अपि चारुणेभिररुणैर्लोहितवर्णैरश्वैर्व्यापनशीलैः स्वकीयैः किरणैस्तुरगैर्वा सुयुजा सम्यग्युक्तेन रथेनोषा आ याति । आगच्छति । किं कुर्वती । प्रबोधयंती सुप्तान्प्राणिनः प्रबुद्धान्कुर्वती ॥ अद्यौत् । द्युत दीप्तौ । लुङ् । द्युद्भ्यो लुङि (पा १-३-९१) इति परस्मैपदम् । व्यत्ययेन च्लेर्लुक् । गुणे प्राप्ते वृद्धिश्छांदसी । यद्वा । द्यु अभिगमने । आदादिकः । उतो वृद्धिर्लुकि हलि (पा ७-३-८९) इति वृद्धिः ॥ १४ ॥