श्रवणम्

1.113.6
क्ष॒त्राय᳚ त्वं॒ श्रव᳚से त्वं मही॒या इ॒ष्टये᳚ त्व॒मर्थ᳚मिव त्वमि॒त्यै ।
विस᳚दृशा जीवि॒ताभि᳚प्र॒चक्ष᳚ उ॒षा अ᳚जीग॒र्भुव᳚नानि॒ विश्वा᳚ ॥
▶ पदपाठः (Word-by-word)
क्ष॒त्राय᳚ । त्व॒म् । श्रव᳚से । त्व॒म् । म॒ही॒यै । इ॒ष्टये᳚ । त्व॒म् । अर्थ᳚म्॑इव । त्व॒म् । इ॒त्यै ।
वि॑स᳚दृशा । जी॒वि॒ता । अ॒भि॒॑प्र॒चक्षे᳚ । उ॒षाः । अ॒जी॒गः॒ । भुव᳚नानि । विश्वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

क्षत्राय । धननामैतत् । धनार्थं त्वमेकं प्रत्युषा व्युच्छंतीति शेषः । तथा श्रवशेऽन्नार्थं त्वमेकं प्रति महीयै महत्यै इष्टयॆऽग्नि ष्टोमादिमहायज्ञार्थं त्वमेकं प्रतिव्युच्छंती । तथार्थमिवापेक्षितमर्थं प्रतीत्यै गमनार्थं त्वमेकं प्रति व्युच्छंती । अपि च विसदृशा विलक्षणानि नानारूपाणि जीविता जीवितानि जीवनोपायभूतानि कृषिवाणिज्यादीन्यभिप्रचक्ष आभिमुख्येन प्रकाशयितुं व्युच्छंत्युषाः सर्वाणि भूतजातानि तमसा । निगीर्णान्यजीगः । प्रकाशनेनोद्गीर्णानीवाकरोत् ॥ त्वम् । त्वसमसिमनेमेत्यनुच्चानि (फि ४-१०) इति सर्वानुदात्तत्वम् । महीयै । मह्यै । महेरिन्सर्वधातुभ्य इतीन्प्रत्ययः । कृदिकारादक्तिन इति ङीष् । उदात्तयण इति विभक्तेरुदात्तत्वम् । छांदस ईकारोपजनः । यद्वा महीशब्दादुत्तरस्य चतुर्थ्येकवचनस्य याडापः (पा ७-३-११३) इति व्यत्ययेन याडागमः । छांदसमंतोदात्तत्वम् । विसदृशा । त्यदादिषु दृशोऽनालोचने कञ्चीत्यत्र समानान्ययोश्च । पा ३-२-६०-१ । इति वचनाद्दृशेः कञ् । समानस्य छंदसीति सभावः । विगतसादृश्यानि विसदृशानि । शेश्छंदसि बहुलमिति शेर्लोपः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अभिप्रचक्षे । चक्षेस्तुमर्थे सेसेनिति सेन्प्रत्ययः । स्कोः संयोगाद्योरिति कलोपः कत्वषत्वे ॥ ६ ॥