श्रवणम्

1.46.2
या द॒स्रा सिन्धु᳚मातरा मनो॒तरा᳚ रयी॒णाम् ।
धि॒या दे॒वा व᳚सु॒विदा᳚ ॥
▶ पदपाठः (Word-by-word)
या । द॒स्रा । सिन्धु᳚॑मातरा । म॒नो॒तरा᳚ । र॒यी॒णाम् ।
धि॒या । दे॒वा । व॒सु॒॑विदा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

या देवा यावुभावश्विनौ वक्ष्यमाणगुणयुक्तौ तौ स्तुष इति पूर्वत्रान्वयः । कीदृशौ । दस्रा दस्रौ दर्शनीयौ सिंधुमातरा समुद्रमातृकौ । यद्यपि सूर्यचंद्रमसावेव समुद्रजौ तथाप्यश्विनोः केषांचिन्मते तद्रूपत्वात्तथात्वम् । रयीणां धनानां मनोतरा मनसा तारयितारौ धिया कर्मणा वसुविदा निवासस्थानस्य लंभयितारौ ॥ मनोतरा । मनसा तरत इति मनोतरौ । तरतेरंतर्भावितण्यर्थात् ऋूदोरबित्यप् । पूर्वपदांतस्य सकारस्य रुत्वे सति च्छांदसमुत्वम् । रयीणाम् । नामन्यतरस्यामिति नाम उदात्तत्वम् । धिया । सावेकाच इति विभक्तेरुदात्तत्वम् । वसुविदा । वसूनि निवासस्थानानि विंदेते इति वसुविदौ । क्विप्चेति क्विप् ॥ २ ॥