श्रवणम्

1.46.10
अभू᳚दु॒ भा उ᳚ अं॒शवे॒ हिर᳚ण्यं॒ प्रति॒ सूर्य᳚ः ।
व्य᳚ख्यज्जि॒ह्वयासि᳚तः ॥
▶ पदपाठः (Word-by-word)
अभू᳚त् । ऊं॒ इति᳚ । भाः । ऊं॒ इति᳚ । अं॒शवे᳚ । हिर᳚ण्यम् । प्रति᳚ । सूर्यः᳚ ।
वि । अ॒ख्य॒त् । जि॒ह्वया᳚ । असि᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

भा उ सूर्यस्य दीप्तिस्त्वंशव उषःकालीनरश्मिसिद्ध्यर्थमभूदु । प्रादुर्भूतृव । सूर्यश्च हिरण्यं प्रति स्वकीयोदयेन हिरण्यसदृशोऽभूत् । अग्निश्चासितः स्वकीयदीप्तेः सूर्यप्रवेशेन स्वयं कृष्णो भूत्वा जिह्वया स्वकीयया ज्वालया व्यख्यत् । प्रकाशितवान् । तस्मादयमश्विनोर्युवरोरागमनकाल इत्यर्थः ॥ अभूत् । भूसुवोस्तिङीति गुणप्रतिषेधः । हिरण्य प्रति । प्रतिः प्रतिनिधिप्रतिदानयोः (पा १-४-९२) इति प्रतेः कर्मप्रवचनीयत्वम् । कर्मप्रवचनीययुक्ते द्वितीया (पा २-३-८) इति द्वितीया । अख्यत् । चक्षिङ् ति व्यक्तायां वाचि । लुङि चक्षिङः ख्या ञऽति ख्या ञादेशः ॥ २४ ॥ १० ,,