श्रवणम्

1.74.8
त्वोतो᳚ वा॒ज्यह्र᳚यो॒॑भि पूर्व᳚स्मा॒दप᳚रः ।
प्र दा॒श्वा{4} अ᳚ग्ने अस्थात् ॥
▶ पदपाठः (Word-by-word)
त्वा॑ऊ᳚तः । वा॒जी । अह्र᳚यः । अ॒भि । पूर्व᳚स्मात् । अप᳚रः ।
प्र । दा॒श्वान् । अ॒ग्ने॒ । अ॒स्था॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः पुरुषः पूर्वस्मात् स्वस्मादधिकारादपरो निकृष्टो भवति हे अग्ने स इदानीं दाश्वान् तुभ्यं हवींषि दाता सन् त्वोतस्त्वयोतो रक्षितो वाज्यन्नवान् अह्रयो लज्जारहितः एवंभूतः सन् अभि प्रास्थात् । ऐश्वर्यमभिप्राप्य प्रतितिष्ठति । सर्वोत्कृष्टो भवतीत्यर्थः ॥ अह्रयः । ह्री लज्जायाम् । जिह्रेतीति ह्रयः । न ह्रयोऽह्रयः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । दाश्वान् । दाशृ दाने । दाश्वान् साह्वानिति क्वसुप्रत्ययांतो निपातितः ॥ ८ ॥