श्रवणम्

1.148.3 समानपद
नित्ये᳚ चि॒न्नु यं सद᳚ने जगृ॒भ्रे प्रश᳚स्तिभिर्दधि॒रे य॒ज्ञिया᳚सः ।
प्र सू न᳚यन्त गृ॒भय᳚न्त इ॒ष्टावश्वा᳚सो॒ न र॒थ्यो᳚ रारहा॒णाः ॥
▶ पदपाठः (Word-by-word)
नित्ये᳚ । चि॒त् । नु । यम् । सद᳚ने । ज॒गृ॒भ्रे । प्रश᳚स्ति॑भिः । द॒धि॒रे । य॒ज्ञिया᳚सः ।
प्र । सु । न॒य॒न्त॒ । गृ॒भय᳚न्तः । इ॒ष्टौ । अश्वा᳚सः । न । र॒थ्यः᳚ । र॒र॒हा॒णाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यज्ञियासोयज्ञयोग्यायजमानाऋत्विजोवा यं मथनेनोत्पन्नमग्निं नित्येचित् सदने नित्यएवगार्ह- पत्यलक्षणे अग्र्यासादनस्थाने नु क्षिप्रं जगृभ्रे गृह्णन्ति ग्रहेर्लिटिइरयोरेइतिरेभावः हृग्रहोर्भइतिभत्वं नित्यंगतश्रियोध्रियते नित्यंगार्हपत्यमितिसूत्राद्गार्हपत्योनित्यः तदाश्रयत्वात्सदनमपिनित्यमुच्यते गृहीत्वाप्रशस्तिभिः प्रशंसाभिः स्तुतिभिः दधिरे धारयन्त्याहवनीयार्थं धृत्वाच इष्टौ एषणेसाधने- यज्ञेनिमित्तभूतेसति गृभयन्तः गृह्णन्तः ऋत्विजः प्रसूनयन्त सुष्ठुप्रणयन्ति तत्रदृष्टान्तः—ररहाणाः रंहसागच्छन्तः रहिगतौ छान्दसस्यलिटःकानच् अनित्यमागमशासनमितिनुमभावः रथ्योरभवन्तः तत्रनियुक्ताः छन्दसीवनिपावितिरथशब्दान्मत्वर्थीयईकारः अश्वासोन अश्वाइव तेयथाधृत्वा रथ- स्वामिनमभिमतदेशंनयन्तितद्वत् ॥ ३ ॥