श्रवणम्

1.148.5 समानपद
न यं रि॒पवो॒ न रि᳚ष॒ण्यवो॒ गर्भे॒ सन्तं᳚ रेष॒णा रे॒षय᳚न्ति ।
अ॒न्धा अ᳚प॒श्या न द᳚भन्नभि॒ख्या नित्या᳚स ईं प्रे॒तारो᳚ अरक्षन् ॥
▶ पदपाठः (Word-by-word)
न । यम् । रि॒पवः᳚ । न । रि॒ष॒ण्यवः᳚ । गर्भे᳚ । सन्त᳚म् । रे॒ष॒णाः । रे॒षय᳚न्ति ।
अ॒न्धाः । अ॒प॒श्याः । न । द॒भ॒न् । अ॒भि॒॑ख्या । नित्या᳚सः । ई॒म् । प्रे॒तारः᳚ । अ॒र॒क्ष॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यमग्निंगर्भेगर्भवद्रक्षकेअरणिमध्येसन्तंवर्तमानंरिपवोनराः नरेषयन्ति नदुःखयन्ति तथा रिषण्य- वोऽन्येहिंसकाः दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यतीतिक्यचिनिपात्यते क्याच्छन्दसीत्युः नहिंसन्ति कीदृशास्ते रेषणाः हिंसनस्वभावाः यद्वा तैः क्रियमाणाहिंसनप्रकारानहिंसन्ति किंचास्याभिख्या अभितःख्यातिंमाहात्म्यंअंधाः ज्ञानशक्तिरहिताः अविद्वांसः अतएवअपश्याः अद्रष्टारः यद्वा विद्वां- सोप्यभावयितारः अनुपासकाइत्यर्थः ईदृग्रूपाभयेऽपिनदभन् नदभ्नुवन्ति नहिंसन्ति लौकिकोपका- रेणापिप्रयोजकत्वादितिभावः तर्ह्यस्यपारमार्थिकंरूपंकेजानन्तीतिचेत् उच्यतेनित्यासोनित्याः अवि- चलितभक्तयः अग्निहोत्रादिनित्यकर्मरतावाअग्न्यनुग्रहात् स्वयमपि नित्याभविष्यन्तीतिभाविनित्य- त्वमाश्रित्यनित्यौपचर्यन्ते तादृशायजमानाः प्रेतारः यज्ञादिनातमेवतर्पयितारः सन्तः ईंएनमरक्षन् रक्षन्ति यज्ञादिरूपेणभजन्तइत्यर्थः ॥ ५ ॥

महःसइति पंचर्चंनवमंसूक्तम् दैर्घतमसंवैराजमाग्नेयं दशकास्त्रयोविराळेकादशकावेत्युक्तलक्षण- सद्भावात् तथाचानुक्रान्तं—महःसवैराजमिति विनियोगोलैङ्गिकः ।