श्रवणम्

1.148.2
द॒दा॒नमिन्न द᳚दभन्त॒ मन्मा॒ग्निर्वरू᳚थं॒ मम॒ तस्य᳚ चाकन् ।
जु॒षन्त॒ विश्वा᳚न्यस्य॒ कर्मोप᳚स्तुतिं॒ भर᳚माणस्य का॒रोः ॥
▶ पदपाठः (Word-by-word)
द॒दा॒नम् । इत् । न । द॒द॒भ॒न्त॒ । मन्म᳚ । अ॒ग्निः । वरू᳚थम् । मम᳚ । तस्य᳚ । चा॒क॒न् ।
जु॒षन्त᳚ । विश्वा᳚नि । अ॒स्य॒ । कर्म᳚ । उप᳚॑स्तुतिम् । भर᳚माणस्य । का॒रोः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मन्ममननीयंस्तोत्रं हविरादिकंवाददानमित् अग्नयेकुर्वाणमेवमां दंभितारोवैरिणोनददभंत दंभितुं हिंसितुंनप्रभवन्ति दंभेर्बहुलंछन्दसीतिविकरणस्यश्लुः व्यत्ययेनान्तादेशः ममकोऽतिशयइतिउच्यते तस्यप्रदातुर्ममवरूथं वरणीयं स्तोत्रादिकं अयमग्निश्चाकन् अत्यर्थं कामयते कनतिःकांतिकर्मा अस्मा- द्यङ्लुगन्ताल्लङि छान्दसोडभावः बहुलादेववाछान्दसस्तुजादित्वादभ्यासदीर्घः यस्मादेवंतस्मान्नद- भ्नुवन्तीत्यर्थः नकेवलमग्निरेवकामयते किंतु सर्वेदेवाः कामयन्तइत्याह—उपस्तुतिं तंतंदेवमुपेत्य क्रियमाणांस्तुतिंभरमाणस्यकुर्वाणस्य कारोःस्तोतुः अस्ययजमानस्यमम विश्वानि सर्वाणि हविःप्र- दानादिरूपाणि कर्माणिजुषन्त सेवन्ते सर्वेदेवाः अतोनददभन्तेत्यर्थः ॥ २ ॥