इ॒ममू॒ षु त्वम॒स्माकं᳚ स॒निं गा᳚य॒त्रं नव्यां᳚सम् ।
अग्ने᳚ दे॒वेषु॒ प्र वो᳚चः ॥
अग्ने᳚ दे॒वेषु॒ प्र वो᳚चः ॥
पदपाठः (Word-by-word)
इ॒मम् । ऊं॒ इति᳚ । सु । त्वम् । अ॒स्माक᳚म् । स॒निम् । गा॒य॒त्रम् । नव्यां᳚सम् ।
अग्ने᳚ । दे॒वेषु᳚ । प्र । वो॒चः॒ ॥
अग्ने᳚ । दे॒वेषु᳚ । प्र । वो॒चः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने त्वमस्माकमस्मत्संबंधिनमिममू षु पुरोदेशेऽनुष्ठीयमानमपि सनिं हविर्दानं नव्यांसं नवतरं गायत्रं स्तुतिरूपं वचोऽपि देवेषु देवानामग्रे प्र वोच ॥ प्रब्रूबि ॥ ऊ षु । निपातस्य चेति संहितायां दीर्घत्वम् । सुञ इति षत्वम् । नव्यांसम् । नवशब्दादीयसुनीकारलोपश्छांदसः । ईयसुनो नित्त्वादाद्युदात्तत्वम् । वोचः । छंदसि लुङ् लङ् लिट इति लोडर्थे प्रार्थनायां लुङ्यस्यतिवक्तीति च्लेरङादेशः (पा ३-१-५२) वच उम् । पा ७-४-२० ॥ ४