यजा᳚म दे॒वान्यदि᳚ श॒क्नवा᳚म॒ मा ज्याय᳚स॒ः शंस॒मा वृ᳚क्षि देवाः ॥
पदपाठः (Word-by-word)
यजा᳚म । दे॒वान् । यदि᳚ । श॒क्नवा᳚म । मा । ज्याय᳚सः॒ । शंस᳚म् । आ । वृ॒क्षि॒ । दे॒वाः॒ ॥
सायणभाष्यम् (Sayana Commentary)
दर्शपूर्णमासयोः स्रुगादापनात्पूर्वभाविनि जपे नमो महद्भ्य इत्येषा ब्रह्मौदने प्राशिष्यमाण इति खंडे सूर्यो नो दिवस्पातु नमो महद्भ्यो नमो अर्भकेभ्यः (आ १-४) इति सूत्रितं ॥
अग्निना प्रेरितः शुनःशेपो विश्वान्देवाननया तुष्टाव । तथा चाम्नायते । तमग्निरुवाच । विश्वान्नु देवान् स्तुह्यथ त्वोत्स्रक्ष्याम इति स विश्वान्देवांस्तुष्टाव नमो महद्भ्यो नमो अर्भकेभ्य इत्येतयर्चा । ऐ ब्रा ७-१६ । इति ॥ महांतो गुणैरधिकाः । अर्भको गुणैर्न्यूनाः युवानस्तरुणाः । आशिना वयसा व्याप्ता वृद्धाः यथोक्तचतुर्विधदेहयुक्तेभ्यो देवेभ्यो नमोऽस्तु । यदि शक्नवाम कथंचिद्धनादिसंपत्त्या शक्ताश्चेत्तदानीं देवान्यजाम । हे देवा ज्यायसो ज्येष्ठस्य देवताविशेषस्य आ सर्वतः प्रसृतं शंसं स्तोत्रं मा वृक्षि । अहं विच्छन्नं मा कार्षं ॥ आशिनेभ्यः । अशू व्याप्तौ । बहुलमन्यत्रापि (उ २-४९) इत्यौणादिक इनच् प्रत्ययः । चित इत्यंतोदात्तत्वम् । यजाम । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरः । शक्नवाम । शक्लृ शक्तौ । आडुत्तमस्य पिच्चेति तिङः । पिद्वद्भावादनुदात्तत्वे सति विकरणस्वरः । निपातैर्यद्यदिहंतेति निघातप्रतिषेधः । ज्यायसः । प्रशस्यशब्दादीयसुनि ज्य च (पा ५-३-६१) इति ज्यादेशः । ज्यादादीयसः (पा ६-४-१६०) इतीयसुन ईकारस्यात्वम् । नित्त्वादाद्युदात्तत्वम् । शंसम् । हलश्चेति घञ् । वृक्षि । ओ व्रश्चू छेदने । व्यत्ययेनात्मनेपदोत्तमपुरुषैकवचनमिट् । च्लेः सिच् । स्वरितसूतीत्यादिना इडभावः स्कोः संयोगाद्योरित्युपधासकारलोपः । व्रश्चादिना षत्वम् । षढोः कः सीति कत्वम् । आदेशप्रत्ययोरिति षत्वम् । न माङ्योग इत्यडभावः ॥ २४ ॥ १३ ॥