श्रवणम्

1.118.3
प्र॒वद्या᳚मना सु॒वृता॒ रथे᳚न॒ दस्रा᳚वि॒मं शृ᳚णुतं॒ श्लोक॒मद्रे᳚ः ।
किम॒ङ्ग वां॒ प्रत्यव᳚र्तिं॒ गमि᳚ष्ठा॒हुर्विप्रा᳚सो अश्विना पुरा॒जाः ॥
▶ पदपाठः (Word-by-word)
प्र॒वत्॑या᳚मना । सु॒॑वृता᳚ । रथे᳚न । दस्रौ᳚ । इ॒मम् । शृ॒णु॒त॒म् । श्लोक᳚म् । अद्रेः᳚ ।
किम् । अ॒ङ्ग । वा॒म् । प्रति᳚ । अव᳚र्तिम् । गमि᳚ष्ठा । आ॒हुः । विप्रा᳚सः । अ॒श्वि॒ना॒ । पु॒रा॒॑जाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे दस्रौ दर्शनीयावश्विनौ प्रवद्यामना प्रकृष्टगमनेन शीघ्रगामिना सुवृता शोभनवर्तनेन रथेनागत्याद्रेरादरं कुर्वतः स्तोतुरिमं श्लोकं स्तुतिलक्षणामिमां वाचं शृणुतम् । अंगाश्विना हे अश्विनौ पुराजाः पूर्वजाताश्चिरंतरना विप्रासो मेधाविनो वां युवामवर्तिं स्तोतॄणां दारिद्र्यं प्रति तत्परिहर्तुं गमिष्ठा गंतृशब्दात्तुश्छंदसीतीष्ठन् । तुरिष्ठेमेयः स्विति तृलोपः । सुपां सुलुगिति विभक्तेराकाराः । आहुः । प्रत्ययस्वरः । पादादित्वान्निघाताभावः ॥ ३ ॥