उ॒त नो॑हि᳚र्बु॒ध्न्यो॒३॒᳚ मय᳚स्क॒ः शिशुं॒ न पि॒प्युषी᳚व वेति॒ सिन्धु᳚ः ।
येन॒ नपा᳚तम॒पां जु॒नाम᳚ मनो॒जुवो॒ वृष᳚णो॒ यं वह᳚न्ति ॥
येन॒ नपा᳚तम॒पां जु॒नाम᳚ मनो॒जुवो॒ वृष᳚णो॒ यं वह᳚न्ति ॥
पदपाठः (Word-by-word)
उ॒त । नः॒ । अहिः᳚ । बु॒ध्न्यः᳚ । मयः᳚ । क॒रिति᳚ कः । शिशु᳚म् । न । पि॒प्युषी᳚॑इव । वे॒ति॒ । सिन्धुः᳚ ।
येन᳚ । नपा᳚तम् । अ॒पाम् । जु॒नाम᳚ । म॒नः॒॑जुवः᳚ । वृष᳚णः । यम् । वह᳚न्ति ॥
येन᳚ । नपा᳚तम् । अ॒पाम् । जु॒नाम᳚ । म॒नः॒॑जुवः᳚ । वृष᳚णः । यम् । वह᳚न्ति ॥
सायणभाष्यम् (Sayana Commentary)
उतअपिच नोस्माकमहिः अन्तरिक्षगामीअहन्तावाअहीनोवाअहन्यमानोवाएतन्नामकोदेवः सए- वबुध्यः बुध्नंबन्धकमन्तरिक्षं तदर्हतीतिबुध्न्योन्तरिक्षचारीएतन्नामकोदेवोमयः सुखं कः करोतु करोते- र्लङिरूपं किञ्च पिप्युषीव इवशब्दएवार्थःपूरणोवा अस्मान् रसेनाप्याययन्तीसिन्धुर्नामनदीवेतिआ- गच्छतु तत्रदृष्टान्तः—शिशुंन यथाशिशुं प्याययन्तीगौर्गच्छतितद्वत् अपान्नपातं उदकानामपातयि- तारं वर्षकमेतन्नामकं यद्वोदकानांनप्तारंतृतीयंपुत्रंअद्भ्यओषधिवनस्पतयः तेभ्योग्निरितिनप्तृत्वं तादृ- शमग्निंयेनजुनामस्तुतिभिः संगछेम जुइतिसौत्रोधातुर्गत्यर्थः यंदेवं मनोजुवोमनोवेगः वृषणः वर्षका- मेघाश्वावहन्तिससुखंकरोतु ॥ ५ ॥