लोपा᳚मुद्रा॒ वृष᳚णं॒ नी रि᳚णाति॒ धीर॒मधी᳚रा धयति श्व॒सन्त᳚म् ॥
पदपाठः (Word-by-word)
लोपा᳚मुद्रा । वृष᳚णम् । निः । रि॒णा॒ति॒ । धीर᳚म् । अधी᳚रा । ध॒य॒ति॒ । श्व॒सन्त᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हेजाये नदस्यनदनस्य जपशब्दयितुःजपाध्ययनकर्तुः रुधतोरेतोनिरोद्धुः ब्रह्मचर्यमास्थितस्य उभेकर्मणिषष्ठ्यौ उक्तलक्षणं मामांकामआगन् आगमत् नदस्यमारुधतः कामआगमदितिनिरुक्तम् । कस्यहेतोरिति उच्यते इतःत्वत्सङ्गमनिमित्तात् तथा अमुतोवसन्तादिकालात् कुतश्चित्कारणादा- जातः सर्वतउत्पन्नः यद्वा इतएतल्लोकजनितादमुतोलोकान्तरजनिताद्वा कुतश्चिन्निमित्तात्कामात्क- थमिति उच्यते इयंलोपामुद्राबृषणंरेतसःप्रवर्तकंमां नीरिणातिनितरांगच्छति किञ्चधीरंधीमन्तं उ- च्यते इयंलोपामुद्रावृषणंरेतसःप्रवर्तकंमां नीरिणातिनितरांगच्छति किञ्चधीरंधीमन्तं नियमादवि- चालिनं श्वसन्तंमहाप्राण महाबलं अधीराकातरैषायोषित् धयतिउपभुङ्क्ताम् ॥ ४ ॥ अथानयोर्दम्पत्योः संभोगसँल्लापंश्रुत्वातत्प्रायश्चित्तंचिकीर्षुरुत्तराभ्यामाह—अनयोर्विनियोगः शौनकेनोक्तः—इमंनुसोममित्येतेद्वेऋचौप्रयतोजपन् । सर्वान्कामानवाप्नोतिपापेभ्यश्चप्रमुच्यतइति ।