ये चि॒द्धि पूर्व᳚ ऋत॒साप॒ आस᳚न्त्सा॒कं दे॒वेभि॒रव᳚दन्नृ॒तानि᳚ ।
ते चि॒दवा᳚सुर्न॒ह्यन्त᳚मा॒पुः समू॒ नु पत्नी॒र्वृष᳚भिर्जगम्युः ॥
ते चि॒दवा᳚सुर्न॒ह्यन्त᳚मा॒पुः समू॒ नु पत्नी॒र्वृष᳚भिर्जगम्युः ॥
पदपाठः (Word-by-word)
ये । चि॒त् । हि । पूर्वे᳚ । ऋ॒त॒॑सापः᳚ । आस᳚न् । सा॒कम् । दे॒वेभिः᳚ । अव᳚दन् । ऋ॒तानि᳚ ।
ते । चि॒त् । अव᳚ । अ॒सुः॒ । न॒हि । अन्त᳚म् । आ॒पुः । सम् । ऊं॒ इति᳚ । नु । पत्नीः᳚ । वृष᳚॑भिः । ज॒ग॒म्युः॒ ॥
ते । चि॒त् । अव᳚ । अ॒सुः॒ । न॒हि । अन्त᳚म् । आ॒पुः । सम् । ऊं॒ इति᳚ । नु । पत्नीः᳚ । वृष᳚॑भिः । ज॒ग॒म्युः॒ ॥
सायणभाष्यम् (Sayana Commentary)
सातमेवाह हेपते आगस्त्य येचिद्धियेपितु पूर्वेपुरातनाऋतसापः सत्यस्यापवितारः व्याप्नुवाना- महर्षयः आसन् तेदेवेभिर्देवैः साकंसह ऋतानिसत्यवाक्यान्यवदन् वदन्ति येमहत्तपोयज्ञंवाअनुति- ष्ठन्तियेचदेववाक्यानिदेवस्मृतिरूपाणिवदन्ति तेचित् चिदप्यर्थे तेपि अवासुः अवक्षिपन्तिरेतः स्यतिरुपसृष्टोविमोचनेवर्तते तेनह्यन्तमापुः नहिब्रह्मचर्यादेरन्तंप्राप्नुवन् ब्रह्मचारिणोप्यनिषिद्धऋतु- कालगमनमपिकुर्वन्तीत्यर्थः तथापत्नीः पत्न्यश्चतपस्यमानाः वृषभिर्भोगवर्षकैः पतिभिः सहसमूनु- जगम्युः उन्वितिपूरणौ सङ्च्छेरन् अतस्त्वंकथंमांनानुभवसीत्यर्थः ॥ २ ॥