अपामी᳚वां॒ बाध᳚ते॒ वेति॒ सूर्य᳚म॒भि कृ॒ष्णेन॒ रज᳚सा॒ द्यामृ᳚णोति ॥
पदपाठः (Word-by-word)
अप᳚ । अमी᳚वाम् । बाध᳚ते । वेति᳚ । सूर्य᳚म् । अ॒भि । कृ॒ष्णेन᳚ । रज᳚सा । द्याम् । ऋ॒णो॒ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
हिरण्यपाणिः सुवर्णमयहस्तयुक्तः । यद्वा । यजमानेभ्यो दातुं हिरण्यं हस्ते धृतवान् । विचर्षणिः पश्यत्यर्थः । विचर्षणिर्विश्वचर्षणिरिति तन्नामसु पाठात् । सविता देव उभे द्यावापृथिवी अंत उभयोर्लोकयोर्मध्य ईयते । गच्छति । अमीवां रोगादिबाधामप बाधते । सम्यग्निराकरोति । तथा । सूर्यं वेति गच्छति । यद्यपि सवितृसूर्ययोरेकदेवतात्वं तथापि मूर्तिभेदेन गंतृगंतव्यभावः । कृष्णेन तमसः । कर्षकेण निवर्तकेन रजसा तेजसा द्यामाकाशमभ्यृणोति । सर्वतो व्याप्नोति ॥ व्यावापृथिवी । दिवसश्च पृथिव्याम् (पा ६-३-३०) इति चशब्दाद्दिव्यशब्दस्य द्यावादेशः । देवताद्वंद्वे चेत्युभयपदप्रकृतिस्वरत्वम् । नोत्तरपदेऽनुदात्तादौ (पा ६-२-१४२) इति न निषेधः । अपृथिवीरुद्रपूषमंथिष्विति पर्युदस्तत्वात् । ईयते । ईङ् गतौ । तिङ्ङतिङ इति निघातः । बाधते । बाधते च वेति चेति समुच्छयार्थप्रतीतेश्च शब्दस्याप्रयोगाच्चादिलोपे विभाषेति निघातप्रतिषेधः । वेति । वी गतिप्रजनकांत्यशनखादनेषु । अदादित्वाच्छपो लुक् । तिपः पित्त्वादनुदात्तत्वे धातुस्वरः । यद्यप्येषा द्वितीया तथापि तिङः परत्वान्निघाताभावः । ऋणोति । ऋणु गतौ । तनादित्वादुः । तनादिषु करोतेरेव गुणो नान्येषामित्यापिशलिमतेन गुणाभावः ॥ ९ ॥