अ॒प॒सेध᳚न्र॒क्षसो᳚ यातु॒धाना॒नस्था᳚द्दे॒वः प्र᳚तिदो॒षं गृ᳚णा॒नः ॥
पदपाठः (Word-by-word)
अ॒प॒॑सेध᳚न् । र॒क्षसः᳚ । या॒तु॒॑धाना᳚न् । अस्था᳚त् । दे॒वः । प्र॒ति॒॑दो॒षम् । गृ॒णा॒नः ॥
सायणभाष्यम् (Sayana Commentary)
हिरण्यहस्तोऽसुरः प्राणदाता सुनीथः सुष्वु नेता । प्रशस्य इत्यर्थः । सुनीथः पाक इति प्रशस्यनामसु पाठात् । सुमृळीकः सुष्टु सुखयिता स्ववान् धनवान् अर्वाङ् अभिमुखः कर्मदेशे गच्छतु । किंचायं देवः प्रतिदोषं प्रतिरात्रि गृणानः स्तूयमानोऽस्थात् । स्थितवान् । किं कुर्वन् । रक्षसो बाधकत्वेन रक्षणनिमित्तभूतान् । रक्षो रक्षितव्यमस्मादिति यास्कः (नि ४-१८) यातुधानानसुरानपसेधन् । निराकुर्वन् ॥ हिरण्यहस्तादयो गताः । सुमृळीकः । सुष्टु मृळीकं सुखं यस्यासौ तथोक्तः । नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । स्ववान् । स्वमस्यास्तीति स्ववान् । मादुपधाया इति वत्वम् । संहितायां नकारस्य दीर्घादटि समानपाद इति रुत्वम् । आतोऽट नित्यमिति सानुनासिक आकारः । रोर्यत्वम् । यलोपश्च । अपसेधन् । षिधु गत्याम् । शपः पित्त्वादनुदात्तत्वम् । शतुश्च लसार्वधातुकस्वरेण कृदुत्तरपद प्रकृतिस्वरत्वम् । रक्षसः । रक्ष पालन इत्यस्मादपादान औणादिकोऽसिप्रत्ययः । यद्वा । रक्ष्यंत्यनेनेति रक्षो बलम् । करणेऽसुन् । तदेषामस्तीति रक्षस्विनम् । मत्वर्थप्रत्ययलोपश्छांदसः । प्रत्ययस्वरः । यातुधानान् । यत निकारोपसंस्कारयोः । तस्माण्यंतादौणादिको भाव उप्रत्ययः । यातवो यातना एषु धीयंत इति यातुधानाः । अधिकरणे ल्युट् । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । अस्थात् । गातिस्थेति सिचो लुक् । प्रतिदोषं दोषां दोषाम् । प्रति वीप्सालक्षणे यथार्थे । अव्ययीभावः । गृणानः । गृ शब्दे । कर्मणि लटः शानच् । व्यत्ययेन श्ना । प्वादीनां ह्रस्व इति ह्रस्वतम् । चित इत्यंतोदात्तत्वं ॥ १० ॥