श्रवणम्

1.52.4
आ यं पृ॒णन्ति᳚ दि॒वि सद्म᳚बर्हिषः समु॒द्रं न सु॒भ्व१॒᳚ः स्वा अ॒भिष्ट᳚यः ।
तं वृ᳚त्र॒हत्ये॒ अनु᳚ तस्थुरू॒तय॒ः शुष्मा॒ इन्द्र᳚मवा॒ता अह्रु᳚तप्सवः ॥
▶ पदपाठः (Word-by-word)
आ । यम् । पृ॒णन्ति᳚ । दि॒वि । सद्म᳚॑बर्हिषः । स॒मु॒द्रम् । न । सु॒॑भ्वः᳚ । स्वाः । अ॒भिष्ट᳚यः ।
तम् । वृ॒त्र॒॑हत्ये᳚ । अनु᳚ । त॒स्थुः॒ । ऊ॒तयः᳚ । शुष्माः᳚ । इन्द्र᳚म् । अ॒वा॒ताः । अह्रु᳚त॑प्सवः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सड्म सदनं स्थानं बर्हिः शब्दोपलक्षितो यज्ञो येषां सोमानां ते सोमा दिवि स्वर्गलोकेऽवस्थितं यमिंद्रमापृणंति । आ संमतात्पूरयंति । तत्र दृष्टांतः । सुष्ठु भवंतीति सुभ्वो नद्यः समुद्रं न । यथा नद्यः समुद्रं पूरयंति तद्वदित्यर्थः । कीदृश्यो नद्यः । स्वाः । समुद्रस्य स्वभूताः । तथा चाम्नायते । समुद्राय वयुनाय सिंधूनां पतये नमः । तै सं ४-६-२-६ । इति । अभिष्टयः । आभिमुख्येन गमनवत्य ऊतयोऽवितारो मरुतो वृत्रहत्ये वृत्रहनने निमित्तभूते सति तमिंद्रमनुतस्थुः । अनुलक्ष्य स्थिता बभूवुः । कीदृशा मरुतः । शुष्माः शत्रूणां शोषयितारः । अवाताः । वांति प्रातिकूल्येन गच्छंतीति वाताः शत्रवः । तद्रहिताः । अह्रुतप्सवोऽकुटलरूपाः । शोभनावयवा इत्यर्थः ॥ पृणंति । पृ पालनपूरणयोः । क्रैय्यादिकः । प्वादीनां ह्रस्व इति ह्रस्वत्वम् । श्नाभ्यस्तयोरात इत्याकार लोपः । प्रत्ययस्वरः । यद्वृत्तयोगादनिघातः । सद्मबर्हिषः । षद्लृ विशरणगत्यवसादनेषु सीदंत्यस्मिन्निति सद्म । औणाधिकोऽधिकरणे मनिन्प्रत्ययः । नित्त्वादाद्युदात्तत्वं बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन तदेव शिष्यते । सुभ्वः । भवते । क्विप् चेति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वं जस्योः सुपीति यणादेशस्य न भूसुधियोरिति प्रतिषेधे प्राप्ते छंदस्युभयथेति यणादेशः । उदात्तस्वरितयोर्यण इत्यनुदात्तस्य जसः स्वरितत्वम् । अभिष्टयः । इष्टय एषणानि । उपसर्गाश्चाभिवर्जमिति वचनादभिरंतोदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन स एव शिष्यते । एमनादित्वात्पररूपत्वम् । वृत्रहत्ये । हनस्त चेति हंतेर्भावे क्यप् तकारांतादेशश्च । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । अह्रुतप्सवः । ह्वृ कौटिल्ये । अस्मान्निष्ठायां ह्रु ह्वरेश्छंदसि पा ७-२-३१ । इति ह्रु आदेशः । प्सा भक्षण इत्यस्मादौणादिको डुप्रत्ययः । न ह्रुतप्स वोऽह्रुतप्सवः । अव्ययपूर्वपदप्रकृतिस्वरत्वं ॥ ४ ॥