श्रवणम्

1.52.2
स पर्व᳚तो॒ न ध॒रुणे॒ष्वच्यु᳚तः स॒हस्र᳚मूति॒स्तवि᳚षीषु वावृधे ।
इन्द्रो॒ यद्वृ॒त्रमव᳚धीन्नदी॒वृत᳚मु॒ब्जन्नर्णां᳚सि॒ जर्हृ᳚षाणो॒ अन्ध᳚सा ॥
▶ पदपाठः (Word-by-word)
सः । पर्व᳚तः । न । ध॒रुणे᳚षु । अच्यु᳚तः । स॒हस्र᳚म्॑ऊतिः᳚ । तवि᳚षीषु । व॒वृ॒धे॒ ।
इन्द्रः᳚ । यत् । वृ॒त्रम् । अव᳚धीत् । न॒दी॒॑वृत᳚म् । उ॒ब्जन् । अर्णां᳚सि । जर्हृ᳚षाणः । अन्ध᳚सा ॥
▶ सायणभाष्यम् (Sayana Commentary)

अंधसा सोमलक्षणेनान्नेन जर्हृषाणोऽत्यर्थं हृष्यन्निंद्रो यद्यदा वृत्रं त्रयाणां लोकानामावरीतारमसुरमवधीत् । हतवान् । कीदृशं वृत्रम् । नदीवृतम् । नदनान्नद्य आपः । तासामावरीतारम् । किं कुर्वन्निंद्रः । अर्णांसि जलान्युब्जन् । अधःपातयन् । तदानीं स इंद्रः पर्वतो न पर्ववान् शिलोच्चय इव धरुणेषु सर्वस्य धारकेषूदकेषु मध्येऽच्युतश्च लनराहित्येन स्थितः सहस्रमूतिर्बहुविधरक्षणवान् तविषीषु बलेषु वावृदे । प्रवृद्धो बभूव ॥ धरुणेषु । धारयतेर्णिलुक् चेत्युन प्रत्ययः । प्रत्ययस्वरः । सहस्रमूतिः । सहस्रमूतयो यस्यासौ । लुगभावश्छांदसः । वावृधे । संहितायामभ्यासस्यान्येषामपि दृश्यत इति दीर्घत्वम् । नदीवृतम् । नदीं वृणोतीति नदीवृत् । क्विप् । तुगागमः । उब्जन् । उब्ज आर्जवे । विकरणस्वरः । अर्णांसि उदके नुट्च (उ ४-१९६) इत्यर्तेरसुन् प्रत्ययस्तत्सन्नियोगेन नुडागमश्च । नित्त्वादाद्युदात्तत्वम् । जर्हृषाणः । हृष तुष्टौ । यङ् लुगंताद्व्यत्ययेन शानच् । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । यद्वा । यङिंतादेव शानचि बहुलं छंदसीति शपो लुक् । छंदस्युभयथेति शानच् । आर्धधातुकत्वादतोलोप यलोपौ । सार्वधातुकत्वाच्चाभ्यस्तस्याद्युदात्तत्वम् । अंधसा । अद्यत इत्यंधः । अदेर्नुम् धश्च (उ ४-२०५) इत्यसुन् । धातोर्नुमागमो धकारांतादेशश्च नित्त्वादाद्युदात्तत्वं ॥ २ ॥