श्रवणम्

1.103.8
शुष्णं॒ पिप्रुं॒ कुय᳚वं वृ॒त्रमि᳚न्द्र य॒दाव᳚धी॒र्वि पुर॒ः शम्ब᳚रस्य ।
तन्नो᳚ मि॒त्रो वरु᳚णो मामहन्ता॒मदि᳚ति॒ः सिन्धु᳚ः पृथि॒वी उ॒त द्यौः ॥
▶ पदपाठः (Word-by-word)
शुष्ण᳚म् । पिप्रु᳚म् । कुय᳚वम् । वृ॒त्रम् । इ॒न्द्र॒ । य॒दा । अव᳚धीः । वि । पुरः᳚ । शम्ब᳚रस्य ।
तत् । नः॒ । मि॒त्रः । वरु᳚णः । म॒म॒ह॒न्ता॒म् । अदि᳚तिः । सिन्धुः᳚ । पृ॒थि॒वी । उ॒त । द्यौः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वं शुष्णादींश्चतुरोऽसुरान्यदावधीः हतवानसि तदानीं शंबरस्यासुरस्य पुरो नगराणि विदारितवानसि । असुराणां मुख्येषु हतेष्वन्यान्यप्यसुरपुराणि विदीर्णान्यासन्नित्यर्थः । यदनेन सूक्तेन प्रार्थितमस्मदीयं तन्मित्रादयो ममहंताम् । पूजितं कुर्वंतु ॥ शुष्णम् । शुष शोषणे । अंतर्भावितण्यर्थात् तृषिशुषिरसिभ्यः किच्च (उ ३-१२) इति नप्रत्ययः । निदित्यनुवृत्तेराद्युदात्तत्वम् । पिप्रुम् । पृ पालनपूरणयोः । पृ इत्येके । औणादिकः । कुप्रत्ययः । छंदस्युभयथेति तस्य । सार्वधातुकत्वे सति शप् । जुषोत्यादित्यात् श्लुः । अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम् । कुयवम् । यवो यवनम् । मिश्रणम् । कुत्सितम् । यवनमस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । शंबरस्य । शमयतीति शंब आयुधम् । शमेर्वन् (उ ४-९४) ततो मत्वर्थीयो रप्रत्ययः ॥ ८ ॥