अ॒भि त्वा᳚ पू॒र्वपी᳚तये सृ॒जामि᳚ सो॒म्यं मधु᳚ ।
म॒रुद्भि᳚रग्न॒ आ ग᳚हि ॥
म॒रुद्भि᳚रग्न॒ आ ग᳚हि ॥
पदपाठः (Word-by-word)
अ॒भि । त्वा॒ । पू॒र्व॑पी᳚तये । सृ॒जामि᳚ । सो॒म्यम् । मधु᳚ ।
म॒रुत्॑भिः᳚ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥
म॒रुत्॑भिः᳚ । अ॒ग्ने॒ । आ । ग॒हि॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने पूर्वपीतये पूर्वकाले प्रवृत्ताय पानाय त्वां प्रति सोम्यं मधु सोमसंबंधिनं मधुररसमभि सृजामि । सर्वतः संपादयामि । अतस्त्वं मरुद्भिः सहात्रागच्छ ॥ अभि । एवमादीनामंत इत्यंतोदात्तत्वम् । त्वामौ द्वितीयाया इति त्वादेशः सर्वानुदात्तः । पूर्वपीतये । पूर्वा चासौ पीतिश्च । पुंवत्कर्मधारयेत्यादिना (पा ६-३-४२) पुंवद्भावः । सृजामि । सृज विसर्गे । मिपः पित्त्वादनुदात्तत्वम् । विकरणस्वरः । सोम्यम् । सोममर्हति यः । प्रत्ययस्वरेणांतोदात्तः । मधु । फलिपाटनमीत्यादिना (उ १-१९) उप्रत्ययः । निदित्यनुवृत्तेराद्युदात्तत्वम् । अन्यद्गतं ॥ ३७ ॥ ९ ॥