श्रवणम्

1.166.4
आ ये रजां᳚सि॒ तवि᳚षीभि॒रव्य᳚त॒ प्र व॒ एवा᳚स॒ः स्वय᳚तासो अध्रजन् ।
भय᳚न्ते॒ विश्वा॒ भुव᳚नानि ह॒र्म्या चि॒त्रो वो॒ याम॒ः प्रय᳚तास्वृ॒ष्टिषु᳚ ॥
▶ पदपाठः (Word-by-word)
आ । ये । रजां᳚सि । तवि᳚षीभिः । अव्य᳚त । प्र । वः॒ । एवा᳚सः । स्व॑य᳚तासः । अ॒ध्र॒ज॒न् ।
भय᳚न्ते । विश्वा᳚ । भुव᳚नानि । ह॒र्म्या । चि॒त्रः । वः॒ । यामः᳚ । प्र॑य᳚तासु । ऋ॒ष्टिषु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतःयुष्मत्संबन्धिनः येएवासः एवाअश्वविशेषाः तविषीभिः स्वकीयैर्बलैः वृष्टिप्रदानादिरूपैः रजांसिलोकान् आअव्यत सर्वतः आवृण्वन्ति ते वोयुष्माकं एवासोश्वाः स्वयतासः स्वयमेवसारथि- नाविनैवयुक्ताः प्राध्रजन् प्रकर्षेणागच्छन्तिव्याप्नुवन्ति किञ्च युष्मदागमनात् विश्वाभुवनानिसर्वाणि- भूतजातानि विश्वाहर्म्यासर्वाणिहर्म्याणिचभयन्तेबिभ्यतिपतनात् यस्मादेवं तस्माद्वोयामः चित्रश्चा- यनीयः आश्चर्यभूतइत्यर्थः भीतेःकारणमाह—ऋष्टिषुयुद्धस्थासुहेतिषु प्रयतासुप्रकर्षेणोद्यतासुसतीषु अथवानीतौदृष्टान्तः—ऋष्टिषुप्रयतासुसतीषु लोप्तोपमेयं आयुधेषूद्यतेषुयथाजनाबिभ्यतितद्वत् युष्म- दागमनात् बिभ्यतीत्यर्थः ॥ ४ ॥