श्रवणम्

1.166.6
यू॒यं न᳚ उग्रा मरुतः सुचे॒तुनारि᳚ष्टग्रामाः सुम॒तिं पि᳚पर्तन ।
यत्रा᳚ वो दि॒द्युद्रद᳚ति॒ क्रिवि᳚र्दती रि॒णाति᳚ प॒श्वः सुधि᳚तेव ब॒र्हणा᳚ ॥
▶ पदपाठः (Word-by-word)
यू॒यम् । नः॒ । उ॒ग्राः॒ । म॒रु॒तः॒ । सु॒॑चे॒तुना᳚ । अरि᳚ष्ट॑ग्रामाः । सु॒॑म॒तिम् । पि॒प॒र्त॒न॒ ।
यत्र᳚ । वः॒ । दि॒द्युत् । रद᳚ति । क्रिविः᳚॑दती । रि॒णाति᳚ । प॒श्वः । सुधि᳚ता॑इव । ब॒र्हणा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेउग्राः उद्गूर्णबलामरुतोयूयं सुचेतुनाशोभनचेतसा अरिष्टग्रामाः अहिंसितसंघाः सन्तोनोस्माकं सुमतिंशोभनांबुद्धिं पिपर्तनपूरयत कस्मिन् कालेइतितदुच्यते—यत्रयस्मिन्कालेवोयुष्मत्सबन्धिनी- क्रिविर्दतीविक्षेपणशीलद्न्तीदिद्युत् हेतिः रदति विलिखति मेघसंस्त्यायंपश्वःपशूंश्च रिणातिरेषति- हिनस्ति वायौवातिसतिपशवः शीर्यन्तइतिप्रसिद्धम् हिंसायांदृष्टान्तः—सुधिताइव सुहितासुष्ठुप्रेरि- ताबर्हणा हतिस्तत्साधनाहेतिर्वायथारिणातितद्वत् ॥ ६ ॥