यत्त्वे॒षया᳚मा न॒दय᳚न्त॒ पर्व᳚तान्दि॒वो वा᳚ पृ॒ष्ठं नर्या॒ अचु᳚च्यवुः ।
विश्वो᳚ वो॒ अज्म᳚न्भयते॒ वन॒स्पती᳚ रथी॒यन्ती᳚व॒ प्र जि᳚हीत॒ ओष᳚धिः ॥
विश्वो᳚ वो॒ अज्म᳚न्भयते॒ वन॒स्पती᳚ रथी॒यन्ती᳚व॒ प्र जि᳚हीत॒ ओष᳚धिः ॥
पदपाठः (Word-by-word)
यत् । त्वे॒ष॑या᳚माः । न॒दय᳚न्त । पर्व᳚तान् । दि॒वः । वा॒ । पृ॒ष्ठम् । नर्याः᳚ । अचु᳚च्यवुः ।
विश्वः᳚ । वः॒ । अज्म᳚न् । भ॒य॒ते॒ । वन॒स्पतिः᳚ । र॒थि॒यन्ती᳚॑इव । प्र । जि॒ही॒ते॒ । ओष᳚धिः ॥
विश्वः᳚ । वः॒ । अज्म᳚न् । भ॒य॒ते॒ । वन॒स्पतिः᳚ । र॒थि॒यन्ती᳚॑इव । प्र । जि॒ही॒ते॒ । ओष᳚धिः ॥
सायणभाष्यम् (Sayana Commentary)
मरुतः त्वेषयामाः प्रदीप्तगमनाः यत् यदापर्वतान् पर्ववतोगिरेर्गह्वराणि पूरकान् मेघान्वा नद- यन्तनादयन्तिवा अथवा दिवोविद्योतनात्मकस्यान्तरिक्षस्यपृष्ठं उपरिभागंनर्यानरेभ्योहिताः अचु- च्यवुः गच्छन्ति तथावोयुष्मत्संबन्धिनि अज्मन् गमनेनिमित्तभूतेसति विश्वोवनस्पतिः वनस्यपाल- यितावृक्षसमूहोभय्तेबिभेति तथौषधिः प्रियङुव्रीह्यादिः प्रजिहीते प्रकर्षेण गच्छतिस्व्स्थानात् इत- स्ततश्चलतीत्यर्थः तत्रदृष्टन्तः—रथीयन्तीव रथमात्मनः इच्छ्न्तीस्त्रीरथारूढेत्यर्थः तादृशीस्त्रीव सा- यथाचलतितद्वत् ॥ ५ ॥