नित्यं॒ न सू॒नुं मधु॒ बिभ्र᳚त॒ उप॒ क्रीळ᳚न्ति क्री॒ळा वि॒दथे᳚षु॒ घृष्व᳚यः ।
नक्ष᳚न्ति रु॒द्रा अव᳚सा नम॒स्विनं॒ न म᳚र्धन्ति॒ स्वत᳚वसो हवि॒ष्कृत᳚म् ॥
नक्ष᳚न्ति रु॒द्रा अव᳚सा नम॒स्विनं॒ न म᳚र्धन्ति॒ स्वत᳚वसो हवि॒ष्कृत᳚म् ॥
पदपाठः (Word-by-word)
नित्य᳚म् । न । सू॒नुम् । मधु᳚ । बिभ्र᳚तः । उप᳚ । क्रीळ᳚न्ति । क्री॒ळाः । वि॒दथे᳚षु । घृष्व᳚यः ।
नक्ष᳚न्ति । रु॒द्राः । अव᳚सा । न॒म॒स्विन᳚म् । न । म॒र्ध॒न्ति॒ । स्व॑त᳚वसः । ह॒विः॒॑कृत᳚म् ॥
नक्ष᳚न्ति । रु॒द्राः । अव᳚सा । न॒म॒स्विन᳚म् । न । म॒र्ध॒न्ति॒ । स्व॑त᳚वसः । ह॒विः॒॑कृत᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
नित्यंनसूनुं औरसंप्रियंपुत्रमिव मधुमधुरंहविर्बिभ्रतः धारयंतोमरुतः विदथेषुयागेषु घृष्वयः रक्षः प्रभृतीनांघर्षकाःसन्तः क्रीळाः क्रीडनशीलाः उपउपेत्यक्रीळन्ति विहरन्ति किञ्च रुद्राः रुद्रपुत्राः मरु- तोपिरुद्राउच्यन्ते जन्यजनकयोरभेदात् मरुतांरुद्रपुत्रत्वंपुराणेषु तपसातुष्टौपार्वतीपरमेश्वरौ मरुतः पुत्रत्वेनस्वीचक्रतुरितिप्रसिद्धम् नमस्विनंनमस्कारोपलक्षितस्तोत्रोपेतं हविष्कृतं हविषःकर्तारं प्रदा- तारंयजमानं अवसारक्षणेनतर्पणेनवानिमित्तभूतेननक्षन्तिव्याप्नुवन्ति किञ्च स्वतवसः स्वायत्तबला- मरुतः यजमानंनमर्धन्ति नमङ्ग्रामयन्ति नक्लेशयन्तीत्यर्थः ॥ २ ॥