श्रवणम्

1.144.4
यमीं॒ द्वा सव᳚यसा सप॒र्यतः᳚ समा॒ने योना᳚ मिथु॒ना समो᳚कसा ।
दिवा॒ न नक्तं᳚ पलि॒तो युवा᳚जनि पु॒रू चर᳚न्न॒जरो॒ मानु᳚षा यु॒गा ॥
▶ पदपाठः (Word-by-word)
यम् । ई॒म् । द्वा । स॑व᳚यसा । स॒प॒र्यतः᳚ । स॒मा॒ने । योना᳚ । मि॒थु॒ना । सम्॑ओ᳚कसा ।
दिवा᳚ । न । नक्त᳚म् । प॒लि॒तः । युवा᳚ । अ॒ज॒नि॒ । पु॒रु । चर᳚न् । अ॒जरः᳚ । मानु᳚षा । यु॒गा ॥
▶ सायणभाष्यम् (Sayana Commentary)

यंईएनमग्निं द्वा द्वौ सवयसा समानवयस्कौ समानसामर्थ्यौ वा समानेयोना योनौ फलस्योत्पत्ति- स्थाने यज्ञे वर्तमानौ मिथुनादंपतीइव एककार्योद्युक्तौ समोकसा समाननिवासौ देवयजदस्थानौ ईदृ- शौ होत्रध्वर्यू सपर्यतःपूजयतः स्तुत्याहविःप्रदानेनचप्रीणयतः कदेत्याहदिवान अहनीव नक्तंरात्राव- पि सर्वदेत्यर्थः एवंपूज्यमानोऽग्निः पलितः पूर्वमंगारावस्थायांजीर्णोऽपि समिन्धनानन्तरं युवातरुणः तेजसासर्वस्य मिश्रयितावा अजनि जायते एवंजातोयं मानुषा युगा मनोःसंबन्धीनियुगानि जायाप- तिरूपाणि होत्रध्वर्युरूपाणिवोद्दिश्य पुरूचरन् बह्वाज्यादिकंभक्षयन् अजरः अजीर्णः जरारहितोव- र्तते ॥ ४ ॥