त्वं ह्य᳚ग्ने दि॒व्यस्य॒ राज᳚सि॒ त्वं पार्थि᳚वस्य पशु॒पा इ᳚व॒ त्मना᳚ ।
एनी᳚ त ए॒ते बृ᳚ह॒ती अ᳚भि॒श्रिया᳚ हिर॒ण्ययी॒ वक्व᳚री ब॒र्हिरा᳚शाते ॥
एनी᳚ त ए॒ते बृ᳚ह॒ती अ᳚भि॒श्रिया᳚ हिर॒ण्ययी॒ वक्व᳚री ब॒र्हिरा᳚शाते ॥
पदपाठः (Word-by-word)
त्वम् । हि । अ॒ग्ने॒ । दि॒व्यस्य᳚ । राज᳚सि । त्वम् । पार्थि᳚वस्य । प॒शु॒पाः॑इ᳚व । त्मना᳚ ।
एनी॒ इति᳚ । ते॒ । ए॒ते इति᳚ । बृ॒ह॒ती इति᳚ । अ॒भि॒॑श्रिया᳚ । हि॒र॒ण्ययी॒ इति᳚ । वक्व᳚री॒ इति᳚ । ब॒र्हिः । आ॒शा॒ते॒ इति᳚ ॥
एनी॒ इति᳚ । ते॒ । ए॒ते इति᳚ । बृ॒ह॒ती इति᳚ । अ॒भि॒॑श्रिया᳚ । हि॒र॒ण्ययी॒ इति᳚ । वक्व᳚री॒ इति᳚ । ब॒र्हिः । आ॒शा॒ते॒ इति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने त्वंदिव्यस्यदिविभवस्य देवादेर्विद्युदात्मना वृष्ट्यादेर्वाराजसिईशिषे ऎशर्यनामैतत् तथा- पार्थिवस्यपृथिवीसंबन्धिनः मनुष्यादेः राजसि ईश्वरोभवसि किमन्यतंत्रत्वेननेत्याह—त्मनाआत्मनै- व स्वसामर्थ्येनैव तत्रदृष्टान्तः—पशुपाइव पशुपालकोयथास्वसामर्थ्येनैव पशूनांनिरोधनिर्गमनादि- व्यापारेषुसमर्थोभवति तद्वत् एतदॄष्टान्तेनअत्यन्तस्वातत्र्यमुक्तंभवति किंच यस्मादेवं तस्मात्ते तवब- र्हिर्यज्ञं एतेप्रसिद्धेएनी एतवर्णेशुभ्रे द्यावापृथिव्यौ आशाते अश्नुवातेव्याप्नुतः वर्णानुदात्तादितिङिप् तकारस्यनः कीदृश्यौते बृहती महत्यौअतिविस्तृते अभिश्रियाप्राप्तैश्वर्येअभितः सर्वतोवा हिरण्ययी हितरमणीये वक्वरीअतिकुशलंशब्दयन्त्यौ वचेर्वनिपि वनोरचेतिङीब्रेफौ छान्दसंकुत्वं वकिकौटित्न्ये- इत्यस्माच्छान्दसोनुमभावः ईदृश्यौ द्यावापृथिव्यौबर्हिरश्नुवाते ॥ ६ ॥