यु॒ष्माकं᳚ देवी॒रव᳚सा सनेम सह॒स्रिणं᳚ च श॒तिनं᳚ च॒ वाज᳚म् ॥
पदपाठः (Word-by-word)
यु॒ष्माक᳚म् । दे॒वीः॒ । अव᳚सा । स॒ने॒म॒ । स॒ह॒स्रिण᳚म् । च॒ । श॒तिन᳚म् । च॒ । वाज᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
एवंसूक्तद्वयोक्तरीत्याबहुधास्तुत्वा तांचस्तुतिं अनयानिवेदयित्वास्वाभीष्टंप्रार्थयते हेस्तोम्याः स्तोमस्तोत्रंतदर्हन्तीतिस्तोम्याः स्तुत्यर्हाः उषसः यतोयूयंतादृश्यः अतोमेमत्स्वभूतेन ब्रह्मणासूक्त- द्वयगतमन्त्ररूपेणस्तोत्रेणास्तोढ्वंस्तुताभवत किंच हेउषासः उषसः उशतीस्तोतॄनस्मान् अस्मत्स- मृद्धिंवा कामयमानायूयंअवीवृधध्वं अस्मान्प्रवर्धयत किंच हेदेवीः देव्योदेवनाशीलाः युष्माकंअवसा- युष्मत्संबन्धिनारक्षणेनवयं सहस्रिणं सहस्रसंख्याकं अभीष्टंधनंसनेमलभेमहि तथाशतिनंचवाजं शतसंख्याकं अपरिमितंधनं सनेम युष्मत्कृतेनशतसहस्रपरिमितधनादिरूपरक्षणेनवयमपि अर्थिभ्यः सहस्रपरिमितस्यधनस्यसनितारोभवेमेत्यर्थः ॥ १३ ॥
प्रातारत्नमितिसप्तर्चंपञ्चमंसूक्तंकाक्षीवतं दानस्यस्तूयमानत्वाद्दानदेवत्यं यातेनोच्यतेसादेवतेति- परिभाषितत्वात् त्रैष्टुभं उपइत्यादिकेद्वेजगत्यौ प्रातारत्नंसप्तस्वनयस्यदानस्तुतिरुपजगत्यावित्यनु- क्रमणिका ।