श्रवणम्

1.124.6
ए॒वेदे॒षा पु᳚रु॒तमा᳚ दृ॒शे कं नाजा᳚मिं॒ न परि᳚ वृणक्ति जा॒मिम् ।
अ॒रे॒पसा᳚ त॒न्वा॒३॒᳚ शाश᳚दाना॒ नार्भा॒दीष᳚ते॒ न म॒हो वि᳚भा॒ती ॥
▶ पदपाठः (Word-by-word)
ए॒व । इत् । ए॒षा । पु॒रु॒॑तमा᳚ । दृ॒शे । कम् । न । अजा᳚मिम् । न । परि᳚ । वृ॒ण॒क्ति॒ । जा॒मिम् ।
अ॒रे॒पसा᳚ । त॒न्वा᳚ । शाश᳚दाना । न । अर्भा᳚त् । ईष᳚ते । न । म॒हः । वि॒॑भा॒ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषोषा एवेत् इच्छब्दएवकारार्थः एवमेवइदानीं भासमानप्रकारेणैवपुरुतमाविपुलतमा अत्यन्त- विस्तृतासती अजामिं विजातीयंमनुष्यादिजातिंनपरिवृणक्ति परितः सर्वतोनवर्जयति तथा जामिं- सजातीयंदेवजातिंनपरिवृणक्ति नपरिवर्जयति मनुष्यादिकंदेवादिकंचतदुपलक्षितं लोकद्वयंवाका- र्त्स्न्येनप्रकाशयतीत्यर्थः किमर्थमितितदुच्यते—दृशेकं सुखेनसर्वेषांदर्शनायसुखंयथा भवतितथासर्वा- न्दर्शयितुंवा किंच अरेपसा अपापया निर्मलयातन्वाशरीरेण शाशदाना शाशाद्यमाना शाशदानः शाशाद्यमानइतियास्कः । स्पष्टतांगच्छन्तीत्यर्थः विभातीविशेषेणप्रकाशयन्ती साअर्भादल्पात् पुत्रि- कादेःसकाशान्नेषतेनग यति तमपिप्रकाशयति तथा महोमहतोमेर्वादेः सकाशान्नेषते नगच्छति तम- पिप्रकाशयति पूर्वंलोकद्वयंप्रकाशयति इत्युक्तं इदानीमस्मिंल्लोके परमाण्वादिपर्वतपर्यन्तंकृत्स्नंप्रका- शयतीत्यर्थः ॥ ६ ॥