श्रवणम्

1.124.5
पूर्वे॒ अर्धे॒ रज᳚सो अ॒प्त्यस्य॒ गवां॒ जनि᳚त्र्यकृत॒ प्र के॒तुम् ।
व्यु᳚ प्रथते वित॒रं वरी᳚य॒ ओभा पृ॒णन्ती᳚ पि॒त्रोरु॒पस्था᳚ ॥
▶ पदपाठः (Word-by-word)
पूर्वे᳚ । अर्धे᳚ । रज᳚सः । अ॒प्त्यस्य᳚ । गवा᳚म् । जनि᳚त्री । अ॒कृ॒त॒ । प्र । के॒तुम् ।
वि । ऊं॒ इति᳚ । प्र॒थ॒ते॒ । वि॒॑त॒रम् । वरी᳚यः । आ । उ॒भा । पृ॒णन्ती᳚ । पि॒त्रोः । उ॒प॑स्था᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अप्त्यस्यव्यापनशीलस्य विसृतस्यरजसोरञ्चकस्यान्तरिक्षलोकस्य रजः शब्दोऽन्तरिक्षलोकवाची लोकारजांस्युच्यन्तेइतियास्केनोक्तत्वात् । तस्यपूर्वेअर्धेपूर्वस्मिन् भागेजनित्री उत्पन्नासती गवांदि- शांरश्मीनांवाकेतुंप्रज्ञानंप्राकृतप्रकर्षेणकरोति यद्वा रजसोरंजकस्याह्नः रजः शब्दोहर्वाची असृगह- नीरजसीउच्येते इतियास्केनोक्तत्वात् । तस्यपूर्वेर्धेपूर्वस्मिन्भागेउषः कालेगवांवाचांजनित्रीजनयि- त्रीउत्पादयित्री उषःकालेसर्वेषांप्राणिनांवाचः स्फुरन्तीतिप्रसिद्धम् यद्वा अप्त्यस्य कर्मसुस्थितस्य- जन्तोः केतुंगमनादिरूपंकर्म । केतुरितिकर्मनाम केतः केतुरितितन्नामसुपाठात् प्राकृतप्रकर्षेणकरोति किंच पित्रोः पालयित्र्योर्द्यावापृथिव्योः उपस्थाउपस्थेउत्सङ्गेअन्तरालप्रदेशेस्थित्वाउभाउभेद्यावा- पृथिव्यौ पृणन्तीस्वतेजसापूरयन्ती यद्वा उभाउभयोः पित्रोरितिसंबन्धः वितरंविशिष्टतरं वरीयः उरुतरंअतिविस्तीर्णंयथाभवतितथाव्युप्रथतेविशेषेणैवप्रख्याताभवति प्रकाशतइत्यर्थः उशब्दोवधार- णार्थःपादपूरणोवा मिताक्षरेष्वनर्थकाः कमीमिद्वितीति यास्केनोक्तत्वात् ॥ ५ ॥