अस॒दित्ते᳚ वि॒भु प्र॒भु ॥
पदपाठः (Word-by-word)
अस᳚त् । इत् । ते॒ । वि॒॑भु । प्र॒॑भु ॥
सायणभाष्यम् (Sayana Commentary)
हे इंद्र वरेण्यं श्रेष्ठं राधो घनं चित्रं मणिमुक्तादिरूपेण बहुविधमर्वागस्मदभिमुखं यथा भवति तथा संचोदय । सम्यक् प्रेरय । भोगाय यावत्पर्याप्तं तावद्विभुशब्देनोच्यते । ततोऽप्यधिकं प्रभुशब्देन । तादृशं धनं ते तवैवासदित् । अस्त्येव । तस्मादस्मभ्यं प्रयच्छेत्यर्थः । मघमित्यादिष्वष्टाविंशतिधननामसु रायो राध इति पठितं ॥ चोदय । चुद प्रेरणे । ण्यंताल्लोट् । तिङ्ङतिङ इति निघातः । राधः । राध्नुवंत्यनेनेति राधो धनम् । सर्वधातुभ्योऽसुन् उ ४-१८८ । नित्त्वादाद्युदात्तः । वरेण्यम् । वृङ एण्यः । वृषादित्त्वादाद्युदात्तः । असत् । अस भुवि । लेट् । तिप् । इतश्च लोपः (पा ३-४-९७) इतीकारलोपः । लेटोऽडाटावित्यडागमः । अदिप्रभृतिभ्यः शप इति शपो लुक् । आगमा अनुदात्ता इत्यटोऽनुदात्तत्वाद्धातुस्वर एव । विभु । विभवतीति विभु । भुव इत्यनुवृत्तौ विप्रसंभ्यो ड्वसंज्ञायाम् (पा ३-२-१८०) इति डुप्रत्ययः । डित्वाट्वलोपः । प्रत्यय स्वरेणोकार उदात्तः । कृदुत्तरपदप्रकृतिस्वरेण स एव शिष्यते एवं प्रभु ॥ ५ ॥