कः स्वि᳚द्वृ॒क्षो निष्ठि᳚तो॒ मध्ये॒ अर्ण᳚सो॒ यं तौ॒ग्र्यो ना᳚धि॒तः प॒र्यष᳚स्वजत् ।
प॒र्णा मृ॒गस्य᳚ प॒तरो᳚रिवा॒रभ॒ उद᳚श्विना ऊहथु॒ः श्रोम᳚ताय॒ कम् ॥
प॒र्णा मृ॒गस्य᳚ प॒तरो᳚रिवा॒रभ॒ उद᳚श्विना ऊहथु॒ः श्रोम᳚ताय॒ कम् ॥
पदपाठः (Word-by-word)
कः । स्वि॒त् । वृ॒क्षः । निः॑स्थि᳚तः । मध्ये᳚ । अर्ण᳚सः । यम् । तौ॒ग्र्यः । ना॒धि॒तः । प॒रि॒॑अस᳚स्वजत् ।
प॒र्णा । मृ॒गस्य᳚ । प॒तरोः᳚॑इव । आ॒॑रभे᳚ । उत् । अ॒श्वि॒ना॒ । ऊ॒ह॒थुः॒ । श्रोम᳚ताय । कम् ॥
प॒र्णा । मृ॒गस्य᳚ । प॒तरोः᳚॑इव । आ॒॑रभे᳚ । उत् । अ॒श्वि॒ना॒ । ऊ॒ह॒थुः॒ । श्रोम᳚ताय । कम् ॥
सायणभाष्यम् (Sayana Commentary)
कःस्वित् कश्चिदनुग्राहकोवृक्षः वृक्षविकारोरथः विकारेप्रकृतिशब्दः यद्वा संस्तषाभिप्रायमेतत् स्तोत्राख्योवृक्षइत्यर्थः कीदृशोरथः निष्ठितः निश्चलंवर्तमानः कुत्रेतिउच्यते अर्णसः उदकस्यमध्येयं- वृक्षंतौग्र्यः तुग्रपुत्रोभुज्युर्नाधितोयाचमानः पर्यषस्वजत् परिष्व क्तमकरोत् आलम्बने दृष्टान्तः— पतरोः पतनशीलस्यमृगस्यमार्जयितुः शोधयितुर्हिंसकादेरारभे आलंबनायपर्णानीव तानियथा आलं- बनाय्प्रभवन्ति तद्वत् हेअश्विनौ श्रोमतायकीर्तिमत्त्वायौदूहथुः ऊर्ध्वं प्रापयथः स्तुतिपक्षे स्तोत्राख्यं- वृक्षमाश्रितवन्तंतमूहथुरित्यर्थः ॥ ७ ॥