श्रवणम्

1.182.8
तद्वां᳚ नरा नासत्या॒वनु᳚ ष्या॒द्यद्वां॒ माना᳚स उ॒चथ॒मवो᳚चन् ।
अ॒स्माद॒द्य सद᳚सः सो॒म्यादा वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ॥
▶ पदपाठः (Word-by-word)
तत् । वा॒म् । न॒रा॒ । ना॒स॒त्यौ॒ । अनु᳚ । स्या॒त् । यत् । वा॒म् । माना᳚सः । उ॒चथ᳚म् । अवो᳚चन् ।
अ॒स्मात् । अ॒द्य । सद᳚सः । सो॒म्यात् । आ । वि॒द्याम᳚ । इ॒षम् । वृ॒जन᳚म् । जी॒र॑दा᳚नुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेनरा नेतारौकर्मणोनराकारौवा हेनासत्या असत्यरहितौसत्यफलौवा वांयुवांतत्तादृशं स्तोत्रं- अनुस्यात् अनुकूलंभवतु अनुभवतुवा वांतदित्युक्तंयदित्याह वांप्रतिमानासः पूजावन्तोस्मदीयाहो- त्रादयोयत् उचथंस्तोत्रमवोचन् अकुर्वन् तद्वामनुष्यात् हेअश्विनौ अद्यास्मिन्प्रधानयागदिने अस्मा- दस्माभिः क्रियमाणात् सदसःसंबन्धिनः सोम्यात् सोमयागसंपादकात् आइत्यप्यर्थे अस्माभिर्यजमा- नैरद्यक्रियमाणादपिस्तोत्रात् प्रीणयतमिति विद्यामेतिगतम् ॥ ८ ॥

तंयुञ्चाथामितिषळृचंचतुर्थंसूक्तंत्रैष्टुभमागस्त्यंआश्विनं अनुक्रमणिका—तंयुञ्चाथांषट् ।