श्रवणम्

1.12.3
अग्ने᳚ दे॒वा{4} इ॒हा व᳚ह जज्ञा॒नो वृ॒क्तब᳚र्हिषे ।
असि॒ होता᳚ न॒ ईड्य᳚ः ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । दे॒वान् । इ॒ह । आ । व॒ह॒ । ज॒ज्ञा॒नः । वृ॒क्त॑ब᳚र्हिषे ।
असि᳚ । होता᳚ । नः॒ । ईड्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने जज्ञानोऽरण्योरुत्पन्नस्त्वं वृक्तबर्हिष आस्तरणार्थं छिन्नेन बर्हिषा युक्ताय तं यजमानमनुग्रहीतुमिह कर्माणि हविर्भुजो देवानावह । सोऽस्मदर्थं होता देवानामाह्वाता त्वमीड्यः स्तुत्योऽसि ॥ देवानित्यत्र संहितायां दीर्घादट समानपाद इति रुत्व । आतोऽट नित्यमित्यनुनासिकभावः । जज्ञानः । जनी प्रादुर्भावे । लिटः कानच् । गमहनेत्युपधालोपः । द्विर्वचनेऽचि (पा १-१-५९) इति तस्य स्थानिवद्भावाद्द्विर्वचनम् । चित्त्वादंतोदात्तः । वृक्तबर्हिषे ओव्रश्चूछेदने । निष्ठेति क्तप्रत्ययः । यस्य विभाषेतीट् प्रतिषेधः । वृक्तं बर्हिर्यस्मै यजमानाय येन वा ऋत्विजा । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । असि । अस्तेः सिप् । अदिप्रभृतिभ्यः शप इति शपो लुक् । तासस्त्योर्लोपः (पा २-४-५०) इति सकारस्य लोपः । पादादित्वान्न निघातः । होता । ह्वयतेस्ताच्छील्यादिषु तृन् । बहुलं छंदसीति संप्रसारणम् । नित्त्वादाद्युदात्तः । ईड्य । ईडस्तुतौ । ऋहलोर्ण्यत् (पा ३-१-१२४) तित्स्वरिते प्राप्त ईडवंदवृशंसदुहां ण्शतः (पा ६-१-२१४) इत्याद्युदात्तत्वं ॥ ३ ॥