श्रवणम्

1.181.5 समानपद
प्र वां᳚ निचे॒रुः क᳚कु॒हो वशा{4}॒ अनु᳚ पि॒शङ्ग᳚रूप॒ः सद᳚नानि गम्याः ।
हरी᳚ अ॒न्यस्य᳚ पी॒पय᳚न्त॒ वाजै᳚र्म॒थ्ना रजां᳚स्यश्विना॒ वि घोषै᳚ः ॥
▶ पदपाठः (Word-by-word)
प्र । वा॒म् । नि॒॑चे॒रुः । क॒कु॒हः । वशा᳚न् । अनु᳚ । पि॒शङ्ग᳚॑रूपः । सद᳚नानि । ग॒म्याः॒ ।
हरी᳚ । अ॒न्यस्य᳚ । पी॒पय᳚न्त । वाजैः᳚ । म॒थ्ना । रजां᳚सि । अ॒श्वि॒ना॒ । वि । घोषैः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विना अश्विनौ वांयुवयोर्मध्ये अन्यस्यैकस्यककुहः श्रेष्ठः पिशङ्गरूपः हिरण्यरूपः पीतव- र्णोवा बहुभिरक्षाद्यवयवैः निरूप्यमाणोवारथोवशान् अनुकामाननुलक्ष्ययथाकामं अस्म द्यज्ञाग- मनेच्छयेत्यर्थः यद्वा वशान् स्वाधीनाः ककुहः दिशः दिगन्तरालानुक्रमेणनीचैरुच्चैश्चरन् स्वस्था- नाद्देवयजनाभिमुखंगच्छन् सदनानि अस्मद्याग्गृहाणिप्रगम्याः प्रकर्षेणगच्छतु पुरुषव्यत्ययः अत्रय- द्यप्यन्यस्येतिनोक्तं तथप्युत्तरवाक्येतथोक्तत्वादत्रापिलभ्यते अन्यस्ययुवयोरन्यतमस्यहरी अश्वौ रजांसिलोकाः अत्रलोकशब्दोजनवाचकः तेयजमानरूपाजनाइत्यर्थः तेचमश्रामथनेनालोडनेन- निष्पादितैर्वाजैरन्नैरामिक्षादिरूपैर्घोषैः स्तुतिभिश्च आह्वानादिशब्दविशिष्टैर्वापीपयन्त आप्या- ययन्ति ॥ ५ ॥