श्रवणम्

1.181.7
अस᳚र्जि वां॒ स्थवि᳚रा वेधसा॒ गीर्बा॒ळ्हे अ᳚श्विना त्रे॒धा क्षर᳚न्ती ।
उप᳚स्तुताववतं॒ नाध᳚मानं॒ याम॒न्नया᳚मञ्छृणुतं॒ हवं᳚ मे ॥
▶ पदपाठः (Word-by-word)
अस᳚र्जि । वा॒म् । स्थवि᳚रा । वे॒ध॒सा॒ । गीः । बा॒ळ्हे । अ॒श्वि॒ना॒ । त्रे॒धा । क्षर᳚न्ती ।
उप᳚॑स्तुतौ । अ॒व॒त॒म् । नाध᳚मानम् । याम᳚न् । अया᳚मन् । शृ॒णु॒त॒म् । हव᳚म् । मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवेधसा विधातारावश्विनौ वांयुवयोः बाह्ळेदृढेरथैर्येनिमित्तभूतेसति गीःस्तुतिरूपावाक् अस- र्जिसृज्यते कीदृशीसा स्थविरा अत्यन्तंस्थिरा नित्यावेदमयी त्रेधामन्त्रादिभेदेनत्रिप्रकारा क्षरन्ती- युवां गच्छन्ती इदृशीस्तुतिःकृतेत्यर्थः तथाउपस्तुतौसन्तौनधमानं अभिमतफलंयाचमानमवतंरक्षतं तर्पयतंवा किञ्च यामन्नयामन् गमनेअगमनेच मे हवमाह्वानंश्रृणुतम् ॥ ७ ॥