श्रवणम्

1.155.2 समानपद
त्वे॒षमि॒त्था स॒मर᳚णं॒ शिमी᳚वतो॒रिन्द्रा᳚विष्णू सुत॒पा वा᳚मुरुष्यति ।
या मर्त्या᳚य प्रतिधी॒यमा᳚न॒मित्कृ॒शानो॒रस्तु᳚रस॒नामु᳚रु॒ष्यथः᳚ ॥
▶ पदपाठः (Word-by-word)
त्वे॒षम् । इ॒त्था । स॒म्॑अर᳚णम् । शिमी᳚॑वतोः । इन्द्रा᳚विष्णू॒ इति᳚ । सु॒त॒॑पाः । वा॒म् । उ॒रु॒ष्य॒ति॒ ।
या । मर्त्या᳚य । प्र॒ति॒॑धी॒यमा᳚नम् । इत् । कृ॒शानोः᳚ । अस्तुः᳚ । अ॒स॒नाम् । उ॒रु॒ष्यथः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्राविष्णू शिमीवतोः इष्टप्रदानादिकर्मवतोः वांयुवयोः इत्था इत्थंत्वेषं प्रदीप्तं समरणं सम्य- ग्यागदेशगमनं सुतपाः हुतशिष्टसोमपीतयजमानउरुष्यति रक्षति यागेनपूजयति यद्वा शिमीवतोः प्र- हरणादिकर्मवतोः वांयुवयोः त्वेषंदीप्तंशौर्योपेतं समरणंसम्यक् परस्परगमनोपेतंवृष्टिप्रदानायमेघवि- दारणरूपं कर्म यजमानः उरुष्यति रक्षति स्तौतीत्यर्थः कस्तयोरतिशयइत्युच्यते—या याविन्द्रावि- ष्णू युवांमर्त्ययमनुष्यायहविर्दात्रेयजमानायप्रतिधीयमानमित् प्रतिधातव्यं फलरूपं असनां असनंच- लनशीलं प्रदानशीलमन्नादिकं अस्तुः अभिमतक्षेप्तुः निरसितुर्वाशत्रूणां कृशानोरग्नेः सकाशात् उरु- ष्यथः अविच्छेनप्रवर्तयथः वह्नौहुतंहविः स्वीकृत्यतन्मुखादेवफलमपिदास्यथइत्यर्थः ॥ २ ॥