श्रवणम्

1.153.2
प्रस्तु᳚तिर्वां॒ धाम॒ न प्रयु᳚क्ति॒रया᳚मि मित्रावरुणा सुवृ॒क्तिः ।
अ॒नक्ति॒ यद्वां᳚ वि॒दथे᳚षु॒ होता᳚ सु॒म्नं वां᳚ सू॒रिर्वृ᳚षणा॒विय᳚क्षन् ॥
▶ पदपाठः (Word-by-word)
प्र॑स्तु᳚तिः । वा॒म् । धाम᳚ । न । प्र॑यु᳚क्तिः । अया᳚मि । मि॒त्रा॒व॒रु॒णा॒ । सु॒॑वृ॒क्तिः ।
अ॒नक्ति᳚ । यत् । वा॒म् । वि॒दथे᳚षु । होता᳚ । सु॒म्नम् । वा॒म् । सू॒रिः । वृ॒ष॒णौ॒ । इय᳚क्षन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमित्रावरुणौ वांयुवयोः संबंधिनोः यागस्यप्रस्तुतिः प्रस्तावना करोमीतिसंकल्पएव नप्रयुक्तिः कृत्स्नप्रयोगोनसंपन्नः तावतैव युवयोर्धामतेजः स्थानमयामि प्राप्नोमिसुवृक्तिः युवयोः शोभनावर्ज- कश्चयुष्मत्परिग्रहादस्मि यत् यदातु विदथेषुयज्ञेषुवांयुवांहोताहोमनिष्पादकोयमध्वर्युः अनक्तिहवि- वागच्छति होमंकरोतीत्यर्थः यद्वा होतादेवानामाह्वाता एतन्नामकऋत्विक् शस्त्रादिनावांअनक्ति- व्यंजयति तदासूरिर्युष्मत्संबन्धिसुखं देवत्वलक्षणं अयामीतिशेषः ॥ २ ॥