श्रवणम्

1.163.11
तव॒ शरी᳚रं पतयि॒ष्ण्व᳚र्व॒न्तव᳚ चि॒त्तं वात᳚ इव॒ ध्रजी᳚मान् ।
तव॒ शृङ्गा᳚णि॒ विष्ठि᳚ता पुरु॒त्रार᳚ण्येषु॒ जर्भु᳚राणा चरन्ति ॥
▶ पदपाठः (Word-by-word)
तव᳚ । शरी᳚रम् । प॒त॒यि॒ष्णु । अ॒र्व॒न् । तव᳚ । चि॒त्तम् । वातः᳚॑इव । ध्रजी᳚मान् ।
तव᳚ । शृङ्गा᳚णि । वि॑स्थि᳚ता । पु॒रु॒॑त्रा । अर᳚ण्येषु । जर्भु᳚राणा । च॒र॒न्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअर्वन् तवशरीरंपतयिष्णुपतनशीलंव्याप्तमित्यर्थः तथा तवचित्तंमनोवातइवध्रजीमान् शीघ्र- गमनवान् वायुरिवतद्वत् शीघ्रगमनानुकूलमित्यर्थः किंच तवश्रृंगाणिशिरसोनिर्गताः श्रृंगस्थानीयाः केशाः पुरुत्रापुरुषुबहुषुप्रदेशेषुविष्ठिता विष्ठितानि विविधंस्थितानि किंच तेएवारण्येषु जर्भुराणा- मनोहराणिपूर्यमाणानिवा एवंभूताः केशाश्चरन्ति यद्वा अत्राश्वस्यश्रृंगाभावात् तद्वदुन्नतानितेजां- सिपरिगृह्यन्ते ॥ ११ ॥ आश्वमेधिकेमध्यमेहनि अध्रिगुप्रैषे मानोमित्रइतिसूक्तानंतरमुपप्रागाच्छसनमितिद्वेऋचौशंसनीये सूत्रितंच—उपप्रागाच्छस्ज़नमितिद्वेइति ।