अस्ता᳚र॒ इषुं᳚ दधिरे॒ गभ᳚स्त्योरन॒न्तशु᳚ष्मा॒ वृष᳚खादयो॒ नरः᳚ ॥
पदपाठः (Word-by-word)
अस्ता᳚रः । इषु᳚म् । द॒धि॒रे॒ । गभ᳚स्त्योः । अ॒न॒न्त॑शु᳚ष्माः । वृष᳚॑खादयः । नरः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
विश्ववेदसः सर्वज्ञा रयिभिर्धनैः समोकसः समाननिवासाः समवेता वा धनाधिपतय इत्यर्थः । तविषीभिर्बलैः संमिश्लासः संमिश्राः । संयुक्ता इत्यर्थः । विरप्शिनः । महन्नामैतत् । महांतः । अस्तारः शत्रूणां निरसितारं अनंतशुष्मा अनवच्छिन्नबलाः वृषखादयः । वृषेंद्रः खाधिरायुधस्थानीयो येषां ते तथोक्ताः । यद्वा । वृषा सोमः खादि खाद्यः पेयो येषां ते । नरो नेतारः । एवं भूता मरुतः । गभस्तिरिति बाहुनाम । गभस्त्योर्बाह्वोरिषुं दधिरे । शत्रूणां निरसनाय धनुर्बाणाधिकमायुधं धारयंति ॥ समोकसः । उच समवाये । आसुनि बहुलवचनात्कुत्वमित्योक उचः के (पा ७-३-६४) इत्यत्रोक्तम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । संमिश्लासः । कपिलकादित्वाल्लत्वम् । विरप्शिनः । रप लप व्यक्तायां वाचि । विपूर्वादस्माद्बहुलवचनात् शक्प्रत्ययः । विविधं शब्धं रपंतीति विरप्शाः स्तोतारः । त एषां संतीति विरप्शिनः । यद्वा । विविधं रपणं विरप्शम् । तदेषामस्तीति । मरुतो हि विविधं शब्दं कुर्वते । इनिप्रत्ययस्वरः । अस्तारः । ताच्छीलिकस्तृन् । इडभावश्छांदसः । नित्त्वादाद्युदात्तत्वम् । अनंतशुष्माः । नास्त्यंतोऽस्येत्यनंतः । नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । अनंतः शुष्मो बलं येषाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वृषखादयः । खादृ भक्षणे औणादिक इन्प्रत्ययः । वृषञ्शब्दः कनिन्प्रत्ययांत आद्युदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ७ ॥ १० ॥