श्रवणम्

1.64.15
नू ष्ठि॒रं म᳚रुतो वी॒रव᳚न्तमृती॒षाहं᳚ र॒यिम॒स्मासु᳚ धत्त ।
स॒ह॒स्रिणं᳚ श॒तिनं᳚ शूशु॒वांसं᳚ प्रा॒तर्म॒क्षू धि॒याव᳚सुर्जगम्यात् ॥
▶ पदपाठः (Word-by-word)
नु । स्थि॒रम् । म॒रु॒तः॒ । वी॒र॑व᳚न्तम् । ऋ॒ति॒॑सह᳚म् । र॒यिम् । अ॒स्मासु᳚ । ध॒त्त॒ ।
स॒ह॒स्रिण᳚म् । श॒तिन᳚म् । शू॒शु॒॑वांस᳚म् । प्रा॒तः । म॒क्षु । धि॒या॑व᳚सुः । ज॒ग॒म्या॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऐकादशिनस्य मारुतस्य पशोर्वपायागस्य नू ष्ठिरमित्येषा याज्या । सूत्रितं च । शुची वो हव्या मरुतः शुचीनां नू ष्ठिरं मरुतो वीरवंतम् (आ ३-७) इति ॥

हे मरुतः स्थिरं स्थास्नुं वीरवंतं वीरैः पुत्रैस्तद्वंतम् । यद्वा । वीर्योपेतम् । ऋतीषाहं गंतृणां शत्रूणामभिभवितारं एवंविधं रयिं पुत्रलक्षणं धनमस्मासु धत्त । स्थापयत । सहस्रिणं शतिनमेतत्संख्याकधनवंतं अत एव शूशुवांसं प्रवृद्धम् । अपि चास्माकं रक्षणाय धिया बुद्ध्या कर्मणा वा प्राप्तधनो मरुद्गणः प्रातःकाले जगम्यात् । आगच्छतु ॥ नू ष्ठिरम् । ऋचि तुनुघेति दीर्घः । पूर्वपदादिति षत्वम् । ऋतीषाहम् । ऋ गतौ । कर्तरि क्तिच् । षह अभिभवे । छंदसि सह इति ण्विप्रत्ययः । अन्येषामपि दृश्यत इति पूर्वपदस्य दीर्घत्वम् । सुषामादित्वात् षत्वम् । शूशुवांसम् । टुओश्वि गतिवृद्ध्योः । लिटः क्वसुः । विभाषा श्वेः (पा ६-१-३०) इति संप्रसारणं द्विर्वचने तुजादित्वादभ्यासस्य दीर्घत्वम् । वस्वेकाजाद्घसामिति नियमादिडभावः । प्रत्ययस्वरः ॥ १५ ॥